SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २० करुणरसकदम्बकम् तामेव निरीक्षमाणः प्राप्तोऽहमपि तद्वारदेशे, स्थितो गोपायित्नात्मना, ततो नरसुन्दर्या विलोकितं दिकचक्रवालं, इष्टकास्थलमारुह्योत्तरी येण बद्धो मध्यवलये पाशकः, निर्मिता तत्र 'शिरोधरा, ततोऽभिहितमनया"भो भो लोकपालाः ! शृणुत यूयं, अथवा प्रत्यक्षमेवदं दिव्यज्ञानिनां तत्रभवतां यदुत-लब्धप्रसरतया नाऽथवादेन कलोपन्यासं कारितो मयाऽऽर्थपुत्रो न परिभवबुद्ध्या, तस्य तु तदेव मानपर्वतारोहकारणं सम्पन्नं, एवं च सर्वथा निराकृताःहं तेन मन्दभान्या, " अत्रान्तरे मया चिन्तितं " नास्यास्तपस्विन्या ममोपरि परिभवबुद्धिः, किं तर्हि ?, प्रणयमात्रमेचात्रापराध्यति, ततो न सुन्दरमनुष्ठितं मया, अधुनाऽपि वारयाम्येनामितोऽध्यवसायादिति" विचिन्त्य पाशकच्छदार्थ यावच्चलामि तावदभिहितं नरसुन्दर्या यदुत-" तत्प्रतीच्छत भगवन्तो ! लोकपाला: ! साम्प्रतं मदीयमाणान् , मा च मम जन्मान्तरेप्वपि पुनरेवंविधव्यतिकरो भूयादिति," ततः शैलराजेनाभिहितं-" कुमार ! पश्य जन्मान्तरेऽपि त्वदीयसम्बन्धमेषा नाभिलषति, " मया चिंतित-" सत्यमिदं, तथाहि-इयं प्रस्तुतव्यतिकरनिषेधमाशास्ते, मदीयव्यतिकरश्चात्र प्रस्तुतः, तन्नियतां, किमनया मम पापया !" ततो लब्धप्रसरेण दत्तो मम हृदये शैलराजेन स्वविलेपनहस्तकः, स्थितोऽहं तस्य माहाम्येन तां प्रति काष्ठवन्निष्ठितार्थः, ततः प्रवाहितो नम्सुन्दर्यात्मा, पूरितः पाशकः, लम्बितुं प्रवृत्ता, निर्गते नयने, निरुद्धः श्वासमार्गः, वक्रीकृता ग्रीवा, आकृष्टं धमनीजालं, शिथिलितान्यंगानि, सैमसमायितं श्रोतोभिः, निर्वादितं वक्रकुहर, विमुक्ता च सा प्राणैर्वराकी, इतश्च भवनान्निर्गच्छन्ती दृष्टाऽम्बया नरसुन्दरी अहं तु १ कप्ठः। २ शून्यायितम् । ३ इन्द्रियैः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy