SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् तदेवं नरकाकारे, चारके दुःखपूरितः । तत्राहं संस्थितो भद्रे !, सुचिरं पापकर्मणा ॥ ८६१ ॥ परिवारसमेतस्य, महामोहस्य दोषतः ।। तथाप्यहं न निविण्णः, संसाराच्चारुलोचने ! ॥ ८६२ ॥ क्रोधान्धस्तेषु लोकेषु, चित्तकल्लोलदूषितः ।। रौद्रध्यानानुगो नित्यं, भूरिकालमवस्थितः ॥ ८६३ ॥ ___उपमितौ प्र० ७, पृ० ६७६ । [१०] भर्चा तिरस्कृताया नरसुन्दर्या विलापः। ततः सा वराकी नरसुन्दरी 'विगलितविद्येवाम्बरचारिणी, परिभ्रष्टसमाधिसामर्थ्येव योगिनी, तप्तस्थलनिक्षिप्तेव शैफरिका, अवाप्तनष्टरत्नविधानेव मूषिका, सर्वथा त्रुटिताशापाशबन्धना निपतिता महाशोकभरसागरे, चिन्तयितुं प्रवृत्ता-" किमिदानीं सर्वथा प्रियतमतिरस्कृताया मम जीवितेनेति,” ततो निर्गत्य भवनात् क्वचिद्गन्तुमारब्धा, ततः किमियं करोतीति विचिन्त्य सहित एवं शैलराजेनालक्षितपादपातं लग्नोऽहं तदनुमार्गेण, इतश्च लोकयन्निव निर्विण्णो, मदीयं दुष्टचेष्टितम् । अत्रान्तरे गतोऽन्यत्र, तदा क्षेत्रे दिवाकरः ॥ १ ॥ ततः समुल्लसितमन्धकार संजाता विरलजनसञ्चारा राजमार्गा, ततो गता सैकत्र शून्यगृहे नरसुन्दरी, इतश्चोद्गन्तुं प्रवृत्तः शशधरः, ततो मन्दमन्दप्रकाशे १ भ्रष्टविद्येव विद्याधरी । २ मत्स्यी । ३ मानाभिधनृपेण । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy