________________
करुणरसकदम्बकम्
विद्या, वर्तितानि मण्डलानि, संस्मृता देवता, विन्यासितानि तन्त्राणि, तथा कुर्वतामपि च गतः पञ्चत्वमसौ दारकः, अत्रांतरे कामरूपितया शोकमतिमोहाभ्यां सपरिकरयोर्मतिकलितारिपुकम्पनयोः कृतः शरीरानुप्रवेशः । ततश्च
हा हताऽस्मि निराशाऽस्मि, मुषिताऽस्मीति भाषिणी । त्रायस्व देव ! देवेति, वदन्ती नष्टचेतना ॥ १ ॥ क्षणान्निपतिता भूमौ, मृतं वीक्ष्य कुमारकम् । सा देवी वज्रसङ्घातताडितेवातिविह्वला ॥ २ ॥ हा पुत्र ! जात ! जातेति, ब्रुवाणो मूर्च्छया यथा । राजापि पतितो भूमौ, मुक्तः प्राणैस्तथैव सः ॥ ३ ॥ ततो हाहारवो घोरो, महाक्रन्दश्च भैरवः । जनोरस्ताडशब्दश्च, क्षणेन समजायत ॥ ४ ॥ अथ मुक्तविलोलकेशकं, दलितविभूषणभग्नशवकम् । रिपुकम्पनयोषितां शतैर्वृहदाक्रन्दनकं प्रवर्तितम् ॥ ५॥ लालाविलवक्त्रकोटरं, लुठितं भूमितले सुदीनकम् । उल्लञ्चितकेशपाशकं, बृहदाराटिविमोचतत्परम् ॥ ६ ॥ हाहा हाहेति सर्वतः, करुणवानपरायणं जनम् । अथ वीक्ष्य स विस्मितेक्षणो, बुद्धेः सूनुरुवाच मातुलम् ॥७॥
-उपमितो प्र० ४, पृ० ४०२-४०३ ।
१ विकीर्णकेशकं । २ भालस्यास्थि ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com