________________
१६
करुणरसकदम्बकम्
क्षणेन विगतानन्दं, दीनविलमानुषम् । रुदन्नारीजनं मूढं, जातं वासवमन्दिरम् ॥ ३३ ॥
- उपमितौ प्र० ४, पृ० ४१५ ।
[<]
जातानन्तरपुत्रमृत्यौ रिपुकम्पननृपादेः शोकः ।
अत्रान्तरे सूतिकागृहे समुल्लसितः करुणाकोलाहलोन्मिश्रः पूत्कारराव:, प्रधावन्ति स्म महाहाहारवं कुर्वाणा नरपतेरभिमुखं दासचेट्यः, प्रशान्तमानन्दगुन्दलं, किमेतदिति पुनः पुनः पृच्छन् कातरीभृतो राजा ।
ताभिरभिहितं –“ त्रायस्व देव ! त्रायस्व, कुमारो भग्नलोचनो जातः कण्ठगतप्राणैस्ततो धावत धावत, ततो वज्राहत इव सञ्जातो राजा, तथापि सत्त्वमवलम्ब्य सपरिकरो गतः सूतिकागृहे, दृष्टः स्वप्रभोद्भासितभवनभित्तिभागः संपूर्णलक्षणधरः किञ्चिच्छेषजीवितव्यो दारकः, समाहूतं वैद्यमण्डलं, पृष्टो वैद्याधिपतिः - किमेतदिति ।
स प्राह - " देव ! समापतितोऽस्य कुमारस्य सद्योघाती बलवानातङ्कः, स च प्रचंडपवन इव प्रदीपमेनमुपसंहरति (तु) लग्नः पश्यतामे - वास्माकं मन्दभाग्यानां " ।
नृपतिराह - " भो भो लोकाः ! शीघ्रमुपक्रमध्वं यथाशक्त्या, कुमारं यो जीवयति तस्मै राज्यं प्रयच्छामि, स्वयं च पदातिभावं प्रतिपद्येऽहं तदाकर्ण्य सर्वादरेण लोकैः प्रयुक्तानि भैषजानि, वाहिता मन्त्राः, निबद्धानि कण्डकानि, लिखिता रक्षा:, कृतानि भूतिकर्माणि, नियोजिता
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com