________________
करुणरसकदम्बकम्
-
-
[७] पुत्रमरणे वासववणिजस्य विषादः। अत्रान्तरे प्रविष्टोऽ,सौ विषादस्तच्छरीरके । मूर्च्छया पतितश्चासौ, वासवो नष्टचेतनः ॥ २५ ॥ हा हा किमेतदित्युच्चैर्विलपन्निखिलो जनः । ततः समागतस्तस्य, निकटे भयविह्वलः ॥ २६ ॥ अथ वायुप्रदानाद्यैः, पुनः सञ्जातचेतनः ।
प्रलापं कर्तुमारब्धः सविषादः स वासवः॥ २७ ॥ कथम् ?
हा पुत्र ! तात ! वत्सातिसुकुमारशरीरक! । इईशी तव सञ्जाता, काऽवस्था मम कर्मणा ? ॥ २८ ॥ निर्गतोऽसि ममापुण्यैर्वत्स ! वारयतो मम । दैलेन 'निर्धणेनेदं, तव जात ! विनिर्मितम् ।। २९ ॥ हा हतोऽस्मि निराशोऽस्मि, मुषितोऽस्मि पिलक्षणः । एवं व्यवस्थिते वत्स, ! त्वयि किं मम जीवति ? ॥ ३० ॥ यावच्च प्रलपत्येवं, स पुत्रस्नेहकातरः । तावद्विषादः सर्वेसु, प्रविष्टः स्वजनेप्वपि ॥ ३१ ॥ अथ ते तस्य माहात्म्यात्सर्वे वासवबान्धवाः ।
हाहारयपरा गाढं, प्रलापं कर्तमुद्यताः ॥ ३२ ॥ ततश्च
१ निर्दयेन । २ पुत्र!।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com