________________
१४
करुणरसकदम्बकम्
कर्मणीत्पद्यते विश्वं, कर्मणा च विलीयते । तत्र बन्धुसुतद्रव्यलाभालाभे तु का स्पृहा ॥ ३४९ ॥ चक्रन्निदर्शनमिदं यथा पूर्व मृतास्तव । षष्टिसहस्रास्तद्वत्ते, सूनवोऽपि मृता ननु ॥ ३४२ ॥ ततश्च सैनिकाः संसदन्तरेत्य शुचाकुलाः । सोरस्ताडं चक्रिणोऽये, शशंसुस्तत्कुलक्षयम् ॥ ३४३ ॥ श्रुत्वेति विह्नस्येन्द्रश्चक्रिणो व्यजनानिलैः । गोशीर्षचन्दनैर्देहेऽभिषेकं कमधात् ॥ ३४४ ॥ कथञ्चिल्लब्धचैतन्यश्चकी संस्मृत्य नन्दनान् । शोकग्रन्थिरुद्धकण्ठो, मूर्च्छतिस्म मुहुर्मुहुः || ३४५ ॥ मूर्च्छया चक्रिमरणं, विभाव्य सुरराड्थ । तत्कण्ठाश्लिष्टबाहुस्तं, मुक्तकण्ठमरोदयत् ॥ ३४६ ॥ तयो रोदननादेन, रोदसीवासिनो जनाः । शोकसागरनिर्मग्ना इवाभूवन् शुचातुराः ॥ ३४७ ॥ विलीने निबिडे ग्रन्थौ, शक्रः प्रोवाच चक्रिणम् । किं मुह्यसि महीने तत्त्वमप्यज्ञ इवार्तिभिः ॥ ३४८ ॥ भवे स्वकर्मणा कश्चिदल्पायुर्जायते जनः ।
"
दीर्घायुश्च भवेदन्यः, का चिन्तात्र धुने क्षये ॥ ३४९ ॥ त्वमेवा बोधयः पूर्व, मां वैराग्यवचोभरैः ।
स एव च पुनर्मोहं, किमेवं लब्धवानसि ॥ ३५० ॥ - शत्रुञ्जय माहात्म्ये स० ८, पृ० १३८ - १४० ।
१ शोकव्याप्ताः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com