________________
करुणरसकदम्बकम्
वैद्याश्च लब्धसमयाः प्राहुस्तमिति हर्षिताः ॥ ३३० ॥ भेषजैरपरैः सद्भिरसाध्यो भूतिवर्जितैः ।
विपत्स्यते बालकोऽयं, नात्र दोषश्चिकित्सके ॥ ३३१॥ इति श्रुत्वा शक्रविप्रो, मुक्तकण्ठं च मायया । उच्चै रुरोद राजेन्द्रं, दयार्द्रहृदयं सृजन् ॥ ३३२ ॥ इतश्चक्रिबलं सर्व, राजद्वारमुपागतम् ।
१३
राजाथ दुःखितं विप्रं, तं जगादेति सामगीः ॥ ३३३ ॥ मा कुरुष्व शुचं विप्र, ! संसारस्थितिरीदृशी ।
जातो म्रियते जीवोऽत्र, न स्थिरं वस्तुतः क्वचित् ॥ ३३४ ॥ जगत्पूज्या वज्रकाया, योगीन्द्रा जिननायकाः ।
गता अनन्तास्तेऽप्यन्तं, का चिन्ता परदेहिनाम् ॥ ३३५ ॥ सप्तधातुनिबद्धं यत्, क्षुत्तशीतातपादिभिः ।
पीड्यते तत्र देहे का, स्थिरता मूर्खकल्पिता ॥ ३३६ ॥ भ्रातृपुत्रकलत्राद्याः, सर्वेऽपि स्वार्थ ।
आयान्ति यान्त्यपि सदा, दुःखं केवलमात्मनः ॥ ३३७ ॥ यस्य स्वस्यापि देहो नो, वशे सर्वत्र लालितः ।
तस्य मातृपितृभ्रातृपुत्राद्या वशगाः कथम् ॥ ३३८ ॥ इति ब्रुवाणे पृथ्वीशे, शक्रः प्रत्यक्षरूपवान् । जगाद च महीनेतवेत्सि किं संसृतेः स्थितिम् ॥ ३३९ ॥ सत्यमेता दुगेवायं, संसारः सर्वदुःखदः ।
किं त्वस्मिंश्च प्रमादान्धा, विचेष्टन्ते यथा तथा ॥ ३४० ॥
१ मृत्युम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com