________________
१२
करुणरसकदम्बकम्
नैष दोषो भुजङ्गानां, न चैतस्य ममापि च । किंत्वधर्मो जने देशे, त्वयि वा वर्त्तते ननु ॥ ३२० ॥ मन्त्रयन्त्रादिभिस्तत्त्वल्लाधं कुरु बालकम् ।
अन्यथा त्वयि दोषः स्यादस्माकं तु कुलक्षयः || ३२१ ॥ अथ चक्रधरो वैद्यान्, मांत्रिकानप्यजूहवत् । गतासुं तं तु ते वीक्ष्य कृतोपाया मिथो जगुः ॥ ३२२ ॥ स्वामिन्नसावसाध्यानामौषधानां प्रतिक्रिया । पूर्वाऽमृतगृहाद्भस्म, यद्येयुल्लाघ एष तत् ॥ ३२३ ॥ निशम्येति तदा भूप, आदिक्षत्तत्कृते नृपान् । शक्रोऽपि वैकियै रूपैः पश्यतिन्न गृहाद् गृहम् ॥ ३२४ ॥ महानसाद्यत्र यत्र, भस्म ते लान्ति पूरुषाः । तत्र तत्रेत्यपृच्छन्वः, कुले कः किं मृतो न वा ॥ ३२५॥ पितृभातृस्वसृबन्धुमृति तेभ्यो निशम्य ते ।
पुनस्तथैव तद्भस्म, मुक्त्वाऽगच्छन् परान् गृहान् ॥ ३२६ ॥ भ्रमित्वाऽलब्धभस्मान, एवं ते सकलं पुरम् ।
राज्ञः समीपमासेदुः शक्रविप्रोऽपि दुःखितः || ३२७ ॥ ततो जगाद चक्रेशो, मारिहीनाद् गृहान्मम । महानसोद्भवं भस्म, विप्र ! त्वं समुपानय ॥ ३२८ ॥ विप्रेण गृह्णता भस्म, चक्रिमाता यशोमती |
पृष्टा जगौ चकिपितृसुमित्रमरणं गृहे ॥ ३२९ ॥ तन्मुक्त्वा स तथैवैत्य, नृपमाह पितुर्मतिम् ।
१ रोगरहितम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com