________________
करुणरसकदम्बकम्
११ सर्वेषु सुखकृद्धावं मृजदेव ! समाहितम् । मयि किं निष्ठुरं दुःखं, सृजसीह पराङ्मुखम् ॥ ३१० ॥ मयैव दुप्कृतं चक्रे, किन्तु चात्यन्तदारुणम् । वृद्धे वयसि तन्मेऽद्य फलितं सुतहानितः ॥ ३११ ॥ त्वयैनं बालकं दैव !, हरता स्मरता क्रुधम् । वृद्धं मां मत्कलत्रं च, मुमुधु हृतवानसि ॥ ३१२ ॥ पाहि चक्रिन् ! कुदैवान्मां, न्यायाद्रक्ष वसुन्धराम् । निर्वासय पुरात्पापं, भरतेशस्थिति स्मरन् ॥ ३१३ ॥ सुखगृध्रा हि दिक्पाला, विचैतन्या च भूरियम् । सर्वदेवमयस्तत्वं, किं न पासि नरेश ! माम् ? ॥ ३१४ ॥ सर्वथाप्यजिते नाथे, व्रतमाजि जिनाधिपे । त्वमेव पालको लोके, दोषाकर इवारवौ ॥ ३१५ ॥ तस्याकण्येति वचनं, विषण्णोऽथ नृपोऽपि तम् । आकारयजनैर्दोषं, स्वस्मिन्नेव विचिन्तयन् ॥ ३१६ ॥ दर्शनाचविणः सोऽपि, मुक्त्वा तं बालकं पुरः । उच्चै सरोद संसत्स्थान् , रोदयन्नपरानषि ॥ ३१७ ॥ रोदनान्ते पुनः पृष्टश्चक्रिणेति स गां जगौ । स्वामिन् ! ममैकपुत्रस्य, दुःख किं कथयामि ते ॥ ३१८॥ अद्यैष मत्सुतो बालो, निद्राणो रजनीमुखे । सहसैव महारैरदश्यत सैरीस्पैः ॥ ३१९ ॥ १ चन्द्रः। २ सभास्थान् । ३ सः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com