________________
१०
करुणरसकदम्बकम्
यत् सतामपि नः स्वामिसुताः प्रापुरिमां दशाम् । तेनैव लज्जिता वहिं प्रविशामो वयं ननु ॥ २९९॥
इत्युक्ते स पुनः प्राह, यत् साहसमनुष्टितम् ।
तत् स्वामिभक्त्या वा स्वामिभयाद् वा शोक्तोऽपि वा ॥ ३०० ॥ अनिच्छवोऽपि यन्मृत्युमिच्छामस्तत्र चक्रिभीः ।
कैः कैरुपायैः स हि नो, हनिष्यत्यूचुरित्यमी ? ॥ ३०१ ॥ ततः शक्रो निजं रूपमाधायेदमुवाच तान् ।
अत्र वो दूषणं किञ्चित् पश्यामि न मनागपि ॥ ३०२ ॥ तन्मा म्रियध्वं चक्रीर्षा, युष्मास्वेषोऽपनोदये ।
प्रयतन्तु प्रयाणाय, मदाहूताः पुरं प्रति ॥ ३०३ ॥ इत्याश्वास्य स तान् शक्रस्तिरोऽभूत् पश्यतोऽपि हि । विशोकास्ते कथञ्चिच्चायोध्यां प्रत्यनन् शनैः ॥ ३०४ ॥ प्रयाणैर्भग्नपादैस्ते, प्राप्यायोध्यां सुराधिपम् । अस्मरन् स पुनर्वेगादाययौ तत्कृपापरः ॥ ३०५ ॥ 'पञ्चवर्षशतायुष्कं गतासुं बालकं धरन् । विप्रवेषधरः शक्रो, जगाम च नृपान्तिकम् ॥ ३०६ ॥ नृपद्वारगतः प्ररुदित्वा च कठोरगीः ।
विगर्हन् वसुधां दैवं चक्रिणं च जगौ हरिः ॥ ३०७ ॥ 'सर्वसहासि 'वसुधे ! कठिनासि न यत्त्वकम् ।
वृषभं भरतं नाथं, नानुयातासि रे जडे ! ॥ ३०८ ॥ धिक् दिक्पाला इमे कालापेक्षया पाथ हा क्षितिम् । यूयं हि साक्षिणः सर्वव्यापाराणां शुभाशुभे ॥ ३०९ ॥
i
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com