________________
करुणरसकदम्बकम्
भूपैविधीयते सेना, स्वरक्षायै समन्ततः । सत्यामपि ततस्तस्याममी जाता गतासवः ।। २८९ ॥ पुरे किं दर्शयिष्यामः, स्वमुखानि गतत्रपाः ? । चक्रीशः पुनरस्मान् ही, नानोपायैर्हनिष्यति ।। २९० ॥ अमीषामेव तन्मार्ग, निरुपाया भजामहे । सदभृत्या भूपतेर्मार्ग, श्रयन्तीति जनस्थितिः ॥ २९१ ॥ इत्यालोच्य मिथो व्याप्य, स्थितं द्वादशयोजनीम् । ते काष्ठद्वेष्टयामासुः, सैन्यमश्वरथेमैयुत् ॥ २९२ ॥ यावन्मुमुर्षवो दाहैस्तेऽग्निं पाणिभिरस्पृशन् । अज्ञासीत् तावता शक्रोवधिना तद्पप्लवम् ॥ २९३ ॥ दयालुः सहसोपेत्य, विप्रवेषं विधाय च । मा म्रियध्वं मा म्रियध्वं, तानिच्यूचे दिवस्पतिः ॥ २९४ ॥ वचसा तेन धीरेण, सर्वे तस्थुस्तथैव ते । शक्रविप्रः पुरो भूत्वा, जगौ तान् पुनरित्यपि ॥ २९५ ॥ एष वः सर्वसंहारः, कथमद्य विजृम्भते । पराभवाद् वा दुःखाद् वा, शोकाद् वेष्टकृतेऽथ किं ? ॥२९६॥ श्रुत्वा तस्येति वचनमवोचस्ते कृतादराः । परव्यसनदुःखिन् ! भो, श्रुण्यस्मद्व्यसनागतिम् ॥ २९७ ॥ अमन् सगरचक्रेशसुतानालोकयामतः । चेष्टितेन निजेनैव, भस्मसात्कृतविग्रहान् ॥ २९८ ॥ १ गतप्राणाः । २ हस्ती। ३ उत्पातम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com