________________
करुणरसकदम्बकम्
[६] सगरचक्रिणः षष्ठिसहस्रपुत्रेषु भस्मीभूतेषु
सैन्यचक्रयादीनां विलापः । अहो मूर्खा अमी चक्रिसूनवो राज्यदुर्मदाः । अस्मदुक्तं युक्तमपि, मन्वते न हि धिग् मदम् ॥ २८० ॥ चिन्तयित्वेति नागेशैरन्यैरपि समन्वितः । फमाटोपं महाकोपाद्, विभ्राणः फूत्कृति सृजन् ॥ २८१ ॥ उत्पत्य सहसा श्वभ्रात् , तत्रैत्य 'विषहेतिभिः । तानि षष्ठिसहस्राणि, युगपज्ज्वलनोऽदहत् ॥२८२॥-विशेषकम् इत्यासून्य महादाहं, ज्वलनो भुजमेश्वरः । पुनः स्वं स्थानमापेदे, कोपो रिपुवधावधिः॥ २८३ ॥ ततस्तु सैन्ये तुमुलस्तदाघातान्महानभूत् । वज्रपातादिव जनेऽन्योन्यं व्याकुलताकरः ॥ २८४ ॥ तदनाथं महत्सैन्यं, कान्दिशीकमितस्ततः । सर्वोपायपरिभ्रष्टमासीद् दैवविपर्ययात् ॥ २८५ ॥ क्षणे क्षणे मनस्त्वन्यचिन्तयत्मात्मनो हितम् । स्वेच्छया कुरुते दैवमन्यदेवात्मनोऽहितम् ।। २८६ ॥ दुःखोरमविषप्रस्ताः सैनिका गतनायकाः । प्रमाये किञ्चिदश्रुणि, चिन्तयामासुरित्यथ ।। २८७ ॥ पश्यतामपि सर्वेषाममी चक्रीशसूनवः । युगपद् यद्धता नागैस्तदास्माकं बलं वृथा ॥ २८८ ॥ १ विषमेव शस्त्रैः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com