________________
करुणरसकदम्बकम्
NNNNAL
[४] महर्षिहत्यायां श्रीनिवासनृपस्य शोकः । समूलं स्वस्य पुण्यदूं, स्वयं छिन्नं विदन्निव । महर्षि तं हतं वीक्ष्य, शुशोच स धराधिपः ॥ ५४॥
आः कृतं किमिदं नाथ !, मयाऽद्य निविडेनेसा । दुष्कर्मवहिना बोधि-बीजमज्वाल्यतार्जितम् ॥ ५५ ॥ पुण्यावसानं व्यसनं, श्वसनं परमंहसः । धिर धिम् मे जीवितव्यं च, निर्मन्तुप्राणिवैरिणम् ॥ ५६ ॥ एकस्यापि हि जीवस्य, हनने ही तदर्यते । घोरातिघोरं नरकं, लभ्यते येन मानवैः ॥ ५७ ॥ मयाऽऽत्मव्यसनं प्रौदि, तथाऽऽनीतं दुरात्मना । यथा तेनातिवृद्धेन, ऋषिहत्या ममाभवद् ॥ ५८ ॥ प्रोत्साहयन्ति धर्मज्ञा, अपि मां व्यसने रतम् । धिक् तान् पापं च मामापद्विधायिनमैनागसाम् ॥ ५९॥ विद्वत्ता तत्त्ववृत्तिश्च, यातु तेषां द्वयं क्षयम् । यैरित्युक्तं न पापाय, पापद्धिः पृथिवीभुजाम् ।। ६० ॥ अमी तृणांबुसंतृप्ता, जन्तवो गैतमंतवः । हन्यन्ते निशितैर्वाही ही पाप्मभिरुद्धतैः ॥ ६१ ॥ असौ मुनिर्महायोगी, पुण्यराशिरिवागवान् । मया हतो हताशेन, क्व यामि करवाणि किम् ? ॥ ६२ ॥
१ पापेन। २ दुःखकारिणम् । ३ अनपराधिनाम् । ४ मृग्या । ५ अनपराधिनः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com