________________
करुणरसकदम्बकम्
इत्युदीर्य विषण्णात्मा, धनुर्बाणान् बभञ्जसः । विमृशंस्तेषु दुर्जन्मका रिपापैकमूलताम् ॥ ६३ ॥ उत्तीर्य तुरगात् तूर्ण मुनेरभ्यर्णमेत्य च । प्रायश्चित्तमिव स्वस्यांऽर्हसः कुर्वन् ननाम तम् ॥ ६४ ॥ आदाय पाणिना पादौ श्वसतस्तस्य सन्मुनेः । नम्रस्वमौलौ मुकुटे, मुकुटं नृपतिर्व्यधात् ॥ ६५ ॥ मुक्तकण्ठमविश्रामं, निजं निन्दन् कुकर्म सः । रुरोद रोदयन् पार्श्वस्थायिनो मृगपक्षिणः || ६६ ॥ हा हा दुरात्मना देव !, मृगयाव्यसनस्पृशा । म्याsदोऽकारि दुष्कर्म, ममादिश करोमि किम् ? || ६७॥ विमले स्वकुले नाथ ! कलङ्कः कल्पितो मया । पुण्यसौधे महादीप्रे, ददे कज्जलकूर्चकः ॥ ६८ ॥ दुराचारो हतस्वान्तः कुले चेत् तनयो भवेत् । तदा पूर्वजपुण्यद्रौ, संल्भो दावपावकः ॥ ६९ ॥ कलङ्किनो मे भगवन् !, तैरश्चनरकातिथेः । भवतां भवदीयौ तच्चरणौ शरणाविमौ ॥ ७० ॥ इत्युदीर्य मुनेः पादौ, क्रियासमभिहारतः । ननाम बाप्पकलुषलोचनः स स्वनिन्दकः ॥ ७१ ॥ - शत्रुञ्जयमाहात्म्ये स० २, पृ० ३२
५.
१ पापस्य ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com