SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् अहं तु दुर्मरा पुत्र दुःखोयश्रवणादपि । नो म्रिये जीवितं तन्मे, धिगस्तु जननिन्दितम् ॥ ९१ ॥ आकृष्टो राज्यसौख्येन त्वं तु भोगेकलालसः । -मत्सुनोर्भ्रमतोऽरण्ये, वार्त्तामपि न पृच्छसि ॥ ९२ ॥ -शत्रुञ्जयमाहात्म्ये स० ३, पृ० ४१ [ ३ ] भ्रातृवधप्रवृत्तस्य बाहुबलेः परितापः । चलाचलस्य राज्यस्य, कृते भ्रातृवधो हहा । मया प्रारभ्यते हन्त, निहन्तुं स्वभवद्वयम् ॥ ५ ॥ हत्वा गुरूनपि लघून्, वञ्चयित्वा छलेन च । -यदुपादीयते राज्यं, तत् प्राज्यमपि माऽस्तु मे ॥ ६ ॥ आपातसुखसम्प्राप्तिभ्रमितैर्ही नराधमः । 1 यत्र तत्र प्रवत, नरकागारकारणे ॥ ७ ॥ अन्यथा तद्विधं राज्यं, कथमौज्ज्ञज्जिनेश्वरः । अहमेव पुनस्तातपथिको ऽद्य भवामि तत् ॥ ८ ॥ चिन्तयित्वेति मनसि, मनस्वी स नृपो जग कवोष्णैर्नेत्रसलिलैः, सिञ्चन् क्ष्मां चक्रवर्त्तिनम् ॥ ९ ॥ - क्षमस्व मे दुश्चरितं ज्येष्ठबान्धव ! सम्प्रति । मयाऽपि त्वं राज्यकृते, खेदितोऽसि जगत्प्रभो ! ॥ १० ॥ तातपान्थीभविष्यामि, स्पृहयालु सम्पदि । तेनैव मुष्टियुक्त्वा, मूर्द्धजानुञ्चखान सः ॥ ११ ॥ ३ - शत्रुञ्जयमाहात्म्ये स० ४, पृ० ७६-७७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy