________________
करुणरसकदम्बकम्
त्वमेव तातपुत्रोऽसि, यस्तातपथि वर्तसे ।।
अहं विदन्नपि पुना, रागद्वेवैः कदर्थितः ॥ २२ ॥ प्रसीदाखिलमेदिन्या, मम राज्यं गृहाण भोः । अहं संयमसाम्राज्यं, ग्रहीप्ये भगवंस्तव ।। २३ ॥
---शत्रुञ्जयमाहात्म्ये स०४, पृ० ७७
[२] पुत्रवियोगे भरतपस्य पुरतो मरुदेव्यादीनं वचः ।
ईषत्प्रमायॆ नेत्राश्रूण्युद्धिरन्ति मनःशुचम् ।। आशी:पूर्वमुवाचेदं भरतं मरुदेव्यथ ।। ८५ ॥ वत्स ! मत्तनयः पश्य, सर्वमेकपदे ह्यदः । त्यक्त्वा मां त्वामन्यसुतान् , बभूव मृगसार्थभृत् ॥ ८६ ॥ क्षुत्तड्शीतातपग्लानिक्लान्तदेहो दिवानिशम् । वनाद् वनं वायुरिख, बम्भ्रमीति ममाङ्गजः ।। ८७ ॥ चन्द्रचारु व तच्छत्रं, मुक्तारत्नविभूषितम् ? । क च दावानलौदग्रं, तंबनातपमण्डलम् ? ॥ ८८ ॥ किन्नरीगीतझङ्कारसारसङ्गीतकं कुतः ? । कुतो वनान्तसञ्चारान्मशकानां भणकुतिः ? ॥ ८९ ॥ क्व तद्वारणराजेन, चलनं नगरान्तरा ? । क कर्करामदुःखेषु, नगेबु भ्रमणं प्रभोः ? ॥ ९० ॥ १ सूर्यः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com