________________
प्रास्ताविकं किञ्चित् ।
दरिदृश्यन्ते चास्मिन् वसुन्धरावलये विद्यमानेऽपि विविधविशिष्टशिष्टभाषाविरचिते साहित्यविषयेऽनेके गीर्वाणगीर्गुम्फिता ग्रन्थाः । समस्ति च तत्रानेककविवर्यनिबद्धमाबालविदुषां हृदयद्रावकं प्रिया वियोग प्रियपरलोकप्रयाणादिविषयकं करुणरसप्रधानं गद्यपद्यात्मकं कथानकवाङ्मयम् ।
जैनाचार्यैरपि तस्मिन् विषये सम्यकूतया प्रशंसनीयः प्रयासो विहित इति विश्वविश्वविदुषां मतम् । अपि च तत्साहित्यापरिचितानां जनानां प्रतिबोधनार्थ जैनसाहित्यरत्नाकरेषु सत्स्वपि करुणरस पोषका सुअनेकासु कृतिषु समयादिसौलभ्याभावेन गद्यपद्यात्मिकाः कतिपया कृतीः समुद्धृत्याधुना विपश्चितां प्रमोदाय प्रकाश्यन्ते । द्रष्टव्याश्च प्रस्तुतग्रन्थे ये केचित् वित्रया निबद्धास्तेषां विहङ्गावलोकनार्थमेतद् ग्रन्थस्य विषयानुक्रमणिका । विशेषपरिचयार्थ तु समवलोकनीया सुश्रावकेण प्राध्यापकेन श्रीयुत् रसिकदासात्मजकापडियेत्युपनाम केन - हीरालालेन विरचिता प्रस्तावना । सम्पादने चास्य ग्रन्थस्य प्रेरणा हेतुरस्मदीयगुरुवर्याणां श्रीमतां मुनियशोभद्र विजयानाम् । किञ्चास्य ग्रन्थस्य संशोधने निर्विघ्नपरिपूर्तीच पूज्यतमानां प्रगुरुभगवतां विद्यागुरूणां प्राकृतसाहित्यवाचस्पतिसिद्धान्तमहोदधीनां प्राकृतरूपमालाप्राकृत विज्ञानपाठमाला दिग्रन्थरचयितानामुपाध्यायमहोदयानां श्रीमतां कस्तूर विजयगणिवर्याणां महानुपकारः कारणम् । समुत्साहितश्च तैः प्रपूज्यवर्यै रेतद्द्मन्थकृतौ तेन च मया तेषां महानुपकारो संस्मर्यते। अस्य ग्रन्थस्य सम्पादनकर्मणि छाद्मस्थ्येन यदि श् स्खलना जाताः स्युः तर्हि गुणज्ञाः विद्वांसः क्षाम्यन्तु इति प्रार्थयते मुनिशुभङ्कर विजयः ।
www.umaragyanbhandar.com
Shree Sudharmaswami Gyanbhandar-Umara, Surat