________________
AA AA A
SB ॥ अर्पणपत्रिका ॥
श्रीमत् 'तपा 'गणगगनाङ्गणगगनमणि- तीर्थरक्षापरायणैकलक्ष्यकोविदकुलालङ्कार-सूरिचक्रचक्रवर्त्तिप्रपूज्य चरणयुग-शासनसम्राट् - श्रीमद्विजयने मिसूरीश्वरपट्टधराणां निःस्पृहतौदार्याद्यनेकगुणगणविभूषितानामनेक विद्वच्छिष्यप्रशिष्यादि परिवारराजितानां श्रीमज्जिनेश्वरप्ररूपितत्रिपुटिविशुद्धसद्धर्मकर्मप्रतिबोधितश्राद्धवर्याणां प्रातः स्मरणीयसद्वृत्तानां नैसर्गि कशान्तमृर्त्तिस्वरूपाणामाजन्मब्रह्मचारिणामस्मदीयगुरुवर्यप्रगुरु भगवतां पूज्यपादानां श्रीमतां विजयविज्ञानविर्याणां सच्चरणकरणशीलशालिसुकोमलवरदकरकमले करुणरसकदम्बकसज्ञकं ग्रन्थरत्नं सादरं समर्पयति । वीर संवत्सरे २४६७ तमेऽब्दे सूर्यपुरस्थो भवच्चरणकमलपरागरागरञ्जितो मुनिशुभङ्करविजयः ।
JUDIC
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com