________________ गणककुमुदकौमुदीटीकासमेतम् / (95) त्पञ्चदशयः शेषस्योनत्वाद्गम्य एवमस्तसाधने श्लोकोतवक्रिया // 2 // अथ शुक्रस्योदयास्तौ शार्दूलविक्रीडितद्वयेनाहपञ्चेशोनगणोऽन्दभूपलवयुग्वेदाष्टवाणैर्हतः पश्चाषट्कृतिभिर्नगाष्टयुगलैः शुक्रोदयास्तौ कमात् / शेषैः प्राग्नगगोयमैगंजयुगप्राणैस्तदानीं च यस्तिग्मांशेरुदयःखखाग्निरहितःपश्चात्तु तत्सप्तमः॥३॥ क्षुण्णः पञ्चगुणैः शरैश्च विषयैरङ्गाग्निसंख्यैः क्रमाद्रक्तस्तेन च भोदयेन फलयुक्प्राक्छेषकैरुद्गमः / ज्ञेयश्चास्तमयः फलेन रहितैः शोध्यं न शुध्येयदा कार्य व्यस्तविशोधनं धनमृणं व्यस्तं तदुक्तं तदा // 4 // अहर्गणः पञ्चेशोनः पञ्चदशाधिकशतेन 115 हीनोब्दकरणगताब्दानां भूपलवेन षोडशांशेन १६युक्तो वेदाष्टबाणैश्चतुरशीत्यधिकपञ्चशतेन 584 भक्तो लब्धस्य प्रयोजनाभावः शेषैः षट्ठतिभिः 36 षत्रिंशतासमैः पश्चादुदयः, नगाष्टयुगलैः 287 पश्चादस्तमयः, नगगोयमैः 297 शेषैः प्रागुद्गमः, गजयुगप्राणैः 548 शेषैः प्रागस्तमय इति / अथ शेषस्पष्टीकरणे तदानीं यस्तिग्मांशोरुदयः यस्याः संक्रान्तौ रविर्भवति तस्य पलानीत्यर्थः। खखाग्निभिः 300 हीनाः कार्याश्चेद्यदि पश्चादुदयास्तौ तदा तत्समुदयः खखामिभिः ३००हीनः कार्यस्ततः क्रमात् पश्चिमोदये Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com