________________
( ७८ )
करणकुतूहलम् ।
I
धयेत् । सूर्यानस्तदा वाच्यो वित्रिभस्त्वधिकोऽपि सन् १ अथ वित्रिभलग्नस्य सायनांशस्य क्रान्तिः कार्याशादिस्तस्याः क्रान्तेः स्वदेशीयांशानां भिन्नदिक्त्वेऽन्तरमेकदिक्त्वे योगः कार्यस्तेषां दिगन्तरेऽधिकस्यैव दिक, योगे सैव विनतांशाः स्युस्ते नतांशाः खाद्धेभ्यो नवतिभ्य ९० श्रयुताः शेषमुन्नतांशाः स्युः । तथा तात्कालिको रविः ३ । ० । ३५ । ८ दर्शान्तघटी २९ । २४ अत्र सुखादुत्क्रमलग्नं सायनम् ८ । २५ । १४ । ५८ वित्रिभम् ५। २५ । १४ । ५८ अस्मात्प्राग्वत्क्रान्तिरंशादिः १ । ५४ । ५८ उत्तराः, सीरोह्यामक्षांशाः दक्षिणाः २४ । ३५ । ९ भिन्नदिक्त्वादनयोरन्तरं जाता नतांशाः २२ । ४० । ३२ अक्षांशशेषत्वादक्षिणाः, यतोऽक्षांशाः सदैव दक्षिणा भवन्ति नवति ९० भ्यः शुद्धा जाता उन्नतांशाः ६७ । १९ । २८ ज्या ११० । ३५ नतांशज्या ४६ । ५ ॥१॥
अथ लम्बननत्योरानयनं वंशस्थद्वयेनाह - त्रिभोनलग्नार्कविशेषशिञ्जिनी खरामभक्ता घटिकादिलम्बनम् । तदुन्नतज्या निहतं नखेन्दुभिर्हतं स्फुटं स्यात्खमृणं तिथौ क्रमात् ॥ २ ॥ त्रिभो - नलग्नाधिकहीनके खेस्ततोऽसकृल्लग्नविलम्बनादिकम् । नतांशजीवार्कलवान्विताष्टहृन्नतांशदिकू चांगुलपूर्वका नतिः ॥ ३ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com