SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । (७७) मणं नतफलसंस्कृता चन्द्रस्य गतिः८१८१४ अतः स्पष्टातिथिरमावास्या एष्या घटयः २९।२४ एतत्कालिकाः यातैप्यनाडीगुणितायुभुक्तिरित्यादिना जातौ समकलौ, एवं सर्वत्र ज्ञेयं धीमता। अथ प्रस्तुतमारभ्यते नतोत्रतभागान् त्रिभोनलग्नस्येन्द्रवनयाहदर्शान्तकाले त्रिभहीनलग्नं कार्य चतत्क्रान्तिपलान्तरेक्यम् । भिन्नैकदिक्त्वे नतभागकाः स्युः खाङ्कच्युतास्ते पुनरुन्नतांशाः॥१॥ दर्शान्तेति। तात्कालिकोऽर्क इत्यादिनामावास्यान्तकालीन लग्नं संसाध्य राशित्रयेण हीनं कार्य तेन वित्रिमलग्नेन समश्चेदर्शान्तकालिकः सूर्यो भवति तदा लम्बनाभावः, वित्रिनलमादूनेऽधिके वा खौ लम्बनं स्यादिति ज्ञेयम्, विशेषोऽत्र वित्रिभलमशब्देन दशमं भलमं ततश्चानीतं सम्यग्वलनं भवति, सूर्यसिद्धान्तादौ दशमादेव साधितं यतो मध्यान्हसमान्ते दर्शान्ते नताभावात्सूर्य एव दशमो भावस्तदा लम्बनस्याभावः, वित्रिभादानीतं कदाचिन्मध्यान्हासन्नकाले ग्रहणादिकं न मिलति तदा दशमादानीयते तदेव वास्तवं परं ग्रन्थकता कदाचिदपेक्षया . स्थूलपक्षोऽप्यङ्गीकृतः, यदालग्ने राशिवयं न शुध्यति तदा चक्र दत्वा विशोधयेत् । उक्तं च भत्रयं चेन्न शुध्येत चक्र दत्वा विशो Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy