SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ (७२) करणकुतूहलम् । आद्यन्त्यवाणाग्रगते च रेखे ज्ञेयाविमौ प्रग्रहमुक्तिमाग्ौ । मानान्तरार्दैन विलिख्य वृत्तं केन्द्रेऽथ त न्मार्गयुतद्वयेऽपि ॥२१॥ भूभाईसूत्रेण विधाय वृत्ते सम्मीलनोन्मीलनके च वेद्ये । मार्गप्रमाणे विगणय्य पूर्व मार्गाङ्गुलनं स्थितिभक्तमिष्टम् ॥२२॥ इष्टाड्डलानि स्युरथ स्वमार्गे दद्यादमूनिष्टवशात्तदये। वृत्ते कृते ग्राहकखण्डकेन स्यादिष्टकाले ग्रहणस्य संस्था॥२३ ॥ इतीह भास्करोदिते ग्रहागमे कुतूहले । विदग्धबुद्विवल्लभे शशाङ्कपर्वसाधनम् ॥ ५॥ अथ मध्यशरामबिन्दोः स्पर्शाग्रपर्यन्तं रेखां लिखेत्स ग्राहकस्य ग्रहणमार्गः, यतो मध्यशराग्रचिह्नादेव मोक्षशरामपर्यन्तं रेखां कुर्यात्स मोक्षमार्गः, शरत्रयं स्पर्शिनी सा रेखा धनुराकारा भवति,मानान्तरार्द्धनेति-ग्राह्यग्राहकमानयोरन्तरस्य यदर्द्ध तत्पमितेन कर्काटकेन केन्द्रे वृत्तं कुर्यात, तस्य वृत्तस्य पूर्वविहितग्रहमार्गरेखायाश्च यत्र योगस्तत्र भूच्छायामानाईमिति कर्णाटकेन वृत्तं कुर्यात्, तद्बाह्यवृत्तं यत्र स्पृशति तत्र सम्मीलनमोक्षासनम्, सम्मीलनमिति वृत्तमोक्षमार्गयोर्यत्र योगस्तत्र भूच्छायामानार्द्धमिति कर्नाटकेन वृत्ते कते तेन ग्राह्यासंस्पर्शात् सम्मीलनं ज्ञेयम्, स्पर्शासन्नमुन्मीलनमिति विशेषा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy