SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । ( ७३ ) श्वात्र च्छादकार्द्धसूत्रेणेति नोक्तं भूभयैवोक्तं तस्मात्सूर्यग्रहणे सम्मीलनोन्मीलनयोरभावेो ज्ञेयः । कदाचित्स्वल्पान्तरमुच्यते तथापि बिम्बयोग एव भवति तत्तु खच्छन्नम्, उभयोश्छाद्यच्छादकयोर्बिम्बसाम्यात् । अथेष्टयासमोक्षग्रासः ॥ मार्गेति । कश्वित्पृच्छति स्पर्शकालादनन्तरमभीष्टकालगते मोक्षकाला - त्पूर्व वाष्टकाले कियान्यासस्तदा ग्रासमार्गरेखा मोक्षमा'गैरेखाङ्गुलैः परिमीय तैर्मार्गाङ्गुलैरिष्टकालं गुणयेत्, ततः क्रमेण स्पर्शस्थितिमोक्षस्थितिघटिकाभिर्गुणयेत् तन्मितानीष्टाङ्गुलानि तान्यङ्गुलानि यथेष्टं स्वमार्गे दद्यात् यथेष्टग्रास इष्टस्पर्शशरात्स्पर्शे मार्गे मोक्षशरान्मोक्षमार्गे इष्टाङ्गलैश्चिन्हं कृत्वा तदग्र इष्टाङ्गुलायचिन्हे ग्राहकमानार्डेन वृत्ते यावद्वाह्यमाच्छायते तावदिष्टकाले ग्रहणस्य संस्थानं ज्ञेयम् । यथा स्पर्शादिष्टघटी १ स्पर्शमानाङ्गुलैः १९ गुणितैः १९ स्पर्शस्थित्या ४ | ३८ भक्ताल्लब्धम् ४।६ इष्टाङ्गलानि । अथ परिलेखं विना स्पर्शमध्यमोक्षज्ञानमुच्यते -"सौम्यांशे यदि शायकोऽनलदिशि प्राच्यां शशाङ्कग्रहश्छन्नं पूर्वमथान्तकस्य दिशि तन्मुक्तिः क्रमाद्रक्षसाम् । याम्यश्चेद्विशिखस्तदेन्द्रककुभःस्पर्शः पुरारेर्दिशि च्छन्नं सौम्यदिशीदमुक्तमनला मुक्तीरिमाः स्युः क्रमात् " इति ॥ १ ॥ यया ग्राह्यार्द्धम् ५/३६ मानैक्यार्द्धम् १९ ४६ स्फुटं स्पर्शवलनं सौम्यम् ८।२१।३ स्पष्टं मोक्षवलनं सौम्यम् २।८ परे Shree Sudharmaswami Gyanbhandar-Umara, Surat ܕ www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy