________________
गणककुमुदकौमुदीटीकासमेतम् । (७१) अथ मौक्षिकवलनामात्तेनैव सूत्रेण बिम्बार्द्ध कार्य तयोबिम्बायोर्यत्र सङ्गमस्तत्र मुखपुच्छे प्रकल्प्ये। अथ वलनायकायां समतुल्यप्रमाणेन काटकेन वृत्तद्वये कृते वृत्तयोः समासे मत्स्याकार उत्पद्यते तन्मध्यसूत्रे तन्मुखपुच्छसूत्रमिति, तस्य मुखात्केन्द्रव्यापिनी पुच्छपर्यन्तं रेखां कृत्वा ॥ १४
अथ स्पर्शादिस्थानमुपजात्याहकेन्द्राद्यथाशं स्वशरारकेभ्यो वृत्तैः कृताहरुखण्डकेन । स्युः स्पर्शमध्यग्रहमोक्षसंस्था माङ्कने न्मध्यशराग्रचिन्हात् ॥२०॥
केन्द्रादिति-तस्मात्केन्द्रान्मध्यस्थितबिन्दोर्मध्यशरः स्वदिगभिमुखो देयः, एवं शरत्रयायं चिन्हयित्वा रविग्रहे ग्राहकस्य चन्द्रस्य खण्डकेन चन्द्रग्रहणे भूभायाःखण्डकेन माना
न तत्केन्द्रादिति-कर्काटकेन स्पर्शशरचिन्हाद्वृत्तं कुर्यात् । तदश्यन्तरे ग्राह्यवृत्ते यत्र स्पृशति तत्र स्पर्शो ज्ञेयः; एवं मौक्षिकशरामकतवृत्तसम्पर्कान्मोक्षस्थानं ज्ञेयम्, मध्यशरायकतवशान्मध्यग्रहणसंस्थानं ज्ञेयम्, तत्र यदा मध्यग्रासो प्राह्यबिम्बमुल्लंघ्य यावदहिःपतति तावदाकाशं गृह्यते तत्र सर्वग्रहणं ज्ञेयम्, यदा तु ग्राह्यबिम्बैकदेशे गृह्णाति तदा तावदेव खण्डनहणम्, यदा याह्यं न स्पृशति तदा ग्रहणाभावः ॥ २०॥
अथ सर्वग्रहणोपयोगमिष्टपासं चेन्द्रवज्रात्रयणाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com