SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ( ७० ) करणकु तूहलम् । बाह्येऽत्र वृत्ते वलनं यथाशं प्राक्स्पार्शिकं पश्चिमतश्च मोक्षम् ॥ १८ ॥ देयं खेः पश्चिमपूर्वतस्ते ज्यावच्च बाणौ वलनाग्रकाभ्याम् । उत्पाद्य मत्स्यं वलनायकाभ्यां माध्यः शरस्तन्मुखपुच्छमूत्रे ॥ १९॥ समे भूतले पदादौ वा ग्राह्यस्य चन्द्रग्रहणे चन्द्रस्य रविग्रहणे रवेः बिम्बमानाङ्गुलस्यार्थेनाभीष्टस्थानकल्पितबिन्दोर्मण्डलं कृत्वा ग्राह्यग्राहकमानयोगार्द्धप्रमाणेन कर्काटकेन सूत्रेण वान्यद्वृत्तं तस्मादेव बिन्दोः कृत्वा तस्माद्विन्दोरुपरि पूर्वापरं तथा दक्षिणोत्तरं रेखाद्वयं कर्तव्यम् । एवं साधितदिक्के बाह्ये:त्र वृत्ते वलनं देयं तच्च यथाशं दक्षिणस्यां याम्यं सौम्यमुत्तरस्याम्, प्राग्यासमोक्षे विपरीतदिक्त्वम् इति पूर्व सम्प्रसाय तत्रापि चन्द्रग्रहणे स्पार्शिकं वलनं प्राचीचिन्हात्, मौक्षिकं पश्चिमचिह्नान्नेयम्, रविग्रहणे तु स्पार्शिकं पश्चिमतो मौक्षिकं पूर्वतः, ततश्चन्द्रग्रहे व्यस्तदिशः शराः स्युरिति पूर्व सम्प्रसार्य स्पार्शिकमौक्षिकवलनाग्रचिह्नाभ्यां स्पार्शिकशराङ्गुलपारमिते शलाके क्रमेण स्वदिगभिमुखे ज्यारूपेण देयः । स्पर्शवलनाग्रात्स्पर्शशरो देयः । मौक्षिकवलनाग्रान्मौक्षिकशरो देयो ज्यावत् । एवं धनुराकारे बाह्यवृत्ते रेखाप्रदेशे शरद्वयायं चिन्हं विधाय मध्यरार्थमाह-उत्पाद्येधि – वलनद्विकान्तरमितादिक सूत्रस्यैकाग्रं स्पर्शवलनस्योपरि धृत्वा तेन विम्बार्द्धं कुर्यात्, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy