SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । (६९) सन् स्पर्शकालिकः शरो भवति । स्थिते तृतीयभागेन युतो मध्यकालीनः शरोन्त्यकालीनो मोक्षकालीनः शरो भवति । युग्मपदोद्भवश्चेत्तदा स्थितितृतीयभागेन युतः सन्स्पार्शिकः, हीनः सन्मौक्षिकः शरः स्यात् । एवं विधोश्चन्द्रग्रहणे न तु सूर्यग्रहणे । वा अथवा विधोस्तात्कालिकात्सपातचन्द्रात्पथ. मान्त्यवाणौ साध्यौ, ते स्पर्शमध्यमोक्षशराश्चन्द्रग्रहणे परिलेखकर्मणि विपरीतदिशो ज्ञेया नान्यत्र।उक्तं च, "नित्यशोऽकस्य विक्षेपा परिलेखे यथाक्रमम।विपरीतं शशाङ्कस्य" इति। यथा मध्यस्थितिः ४।३५ तृतीयभागेन ११३१ओजपदत्वान्माध्यः शरः २।५७ हीनो जातःस्पर्शशरः१।२६मध्यशरः २॥५७ स्थितितृतीयभागेन १।३१ युतो जातो मोक्षशरः ४।२८इदं कर्म माध्यशरस्यैव । अथ प्रकारान्तरेण स्पार्शिक श्चन्द्रः १।२९।११।३८ तात्कालिकपातेन ४।१।३५।५३ युतः ६।०४७।३१ भुजः ०।०४७।३१ ज्या ११३९ त्रिनी ४।५७ कृताप्ता शरो जातो याम्यः१।१४स्पर्शकालीनः मोक्षकालिकः पातः ४।१।३६।२१ चन्द्रेण२।१।१८।४४ युक्तः ६।२।५५।५ भुजः ०।२।५५।५ ज्या ६।७ विघ्नी १८।२१ कृताप्ता मोक्षशरो दक्षिणः ४॥३५॥० प्रकारान्तरभेदादल्पान्तरम् ॥ १७ ॥ अथ परिलेखमिन्द्रवज्राद्वयेनाहग्राह्यार्द्धसूत्रेण विधायवृत्तं मानैक्यखण्डेन च साधिताशम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy