SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम्। (६३) लब्धम् । द्विष्ठा स्थितिस्तेन युता विहीना स्यातां क्रमात्स्पार्शिकमोक्षकेते ॥ ११ ॥ ओजे पदे पातयुतो विधुश्चेद्युग्मेऽन्यवं स्थितिवद्विमः । सूर्योदयादस्तमयाच्च गम्यो मध्यो ग्रहः पर्वविरामकाले ॥ १२॥ स्थित्या विमर्दैन च वर्जितेऽस्मिन्स्तःस्पर्शसम्मीलनके क्रमेण । युक्तेऽथ तस्मिन्स्थितिमर्दकाभ्यां मुक्तिस्तथोन्मीलनकं निजाभ्याम् ॥ १३॥ विक्षेपत इति शरात्किंलक्षणान्नागयुगै४८ विभक्ता नाड्यादिकं फलं लब्धं तेन फलेन द्विष्ठा स्थितिरेकत्र युतान्यत्र हीना सती क्रमेण स्पर्शमोक्षयोः स्थिती भवतः, अत्रैतस्मिन्नेव चन्द्रग्रहणे न तु सूर्यग्रहणे चेयदि पातयुतो विधुरोजपदे स्यात्तदैवम्, अथ यदि सपातचन्द्रो युग्मे पदे स्यात्तदा फलयुता मोक्षस्थितिः फलहीना स्पर्शस्थितिर्भवति एवं स्थितिवद्विमर्देऽपि साध्ये, अत्र भास्थे स्पर्शमोक्षशरादेतत्कर्म साधितम्, तद्वचनं च विक्षेपत इति मध्यविक्षेपान भवति, स्वस्वविक्षेपादिति ज्ञेयम्, मध्यविक्षेपादेतत्कर्म कर्तुं न युज्यते यतो मध्यस्थितयोः सममन्तरं न भवति । शरस्यान्यदिक्त्वात्, तस्मात्स्वमौक्षिके ते ॥११॥ स्वविक्षेपादिति सम्भवतीति मया तु वृद्धसम्प्रदायमनुसृत्योदाह्रियते । यथा मध्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy