________________
( ५० )
करणकुतूहलम् ।
छायात इष्टसमयज्ञानम्, इनद्युतिः श्रुतिविभक्त इति फलपदमिति इनो द्वादश १२ द्युतिश्छाया तयोर्वर्गयोगस्तस्य मूलं कर्णः श्रुतिः शेषा व्याख्या सुगमा ॥ उदाहरणम्, इन १२ वर्गः १४४ छायावर्गः ५४ । ३० अनयोर्योगस्य मूलम् १४ । ७ कर्णः, अनेन हृतिः पूर्वागता १३८ । ३२ अका ९ । ४९ इष्टहरः ९ । ४९ खहरात्पतितः १ । ३७ इदमवशेषसंज्ञकं पृथक् खखनन्दैः ९०० गुणितं १४५५ । ० इदं द्वितीयस्थानस्थितेनावशेषेण १।३७ हीनैः खविषयैः ५० जातैः ४८।२३ भक्तं लब्धस्य ३०|४ मूलं ५/२६ नतं जातं पूर्वागतसमानम् ५। २६ चेत्स्वल्पान्तरं तदा स्वल्पान्तरत्वान्न दोष एवं नतं ५/२६ दिनार्द्धात् १६ २६ शुद्धआतमिष्टकालः ११।१० अथेष्टहारेण हीनस्य खहरस्य यदि शेषकं दिगधिकं दशभ्योऽधिकं स्यात्तदा हर एवं नतं स्यात्, यथेष्टहरेण ० । २६ खहरो ११।२६ हीनः ११।० शेषकस्य दशाधिकत्वादिष्टहर एव ० | २६ उन्नतम्, अनेन हीनं दिनाईम् १६ नततामितिकृतः लघु इत्यमुना प्रकारेण कार्मुकधनुः शिञ्जिनी तयोर्ग्रहकर्मसाधनप्रकारस्तेन विना लघुशीघ्रमिति स्वल्पकर्मणा छायासाधनं कृतमित्यर्थः ॥ १२॥
अथ विषुवत्तादक्षिणतः उत्तरतश्च यैरंशैः राशिप्रचारमार्गास्तेषामंशानां क्रान्त्यंशसंज्ञां तत्परिज्ञानमिन्द्रवज्राद्वयेनाह
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com