SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । ( ५१ ) स्युः क्रान्तिखण्डानि यमांगरामाः वन्ध्यग्नयो गोनवबाहवश्च । षडश्विनः खेषुभुवो द्विबाणा युक्तायनांशग्रहबाहुभागाः ॥ १३ ॥ तिथ्युद्धृता लब्धमितानि तानि योज्यानि भोग्याहत शेषकस्य । तिथ्यंशकैः क्रान्तिकला भवन्तियुक्तायनांशग्रहगोलदिक्काः ॥ १४ ॥ स्युः कान्तीति - यमाङ्गरामा द्विषष्ट्यधिकं शतत्रयम् ३६२ क्वब्ध्यग्नय एकचत्वारिंशदधिकं शतत्रयम् ३४१ गोनवबाहवो नवनवत्यधिकशतद्वयम् २९९ षट्अश्विनः षट्त्रिंशदधिकशतद्वयम् २३६ खेषुभुवः सार्द्धशतम् १५० द्विबाणा द्विपञ्चाशत् ५२ एतानि षट् खण्डकानि भवन्ति, अथ यस्य ग्रहस्य क्रान्तिश्विकीर्षिता सोऽयनांशैर्युक्तः कार्यस्तदीयभुजस्य शास्ते तिथ्युद्धृताः पञ्चदशभिर्भक्ता लब्धसंज्ञकानि भुक्तखण्डानि योज्यानि तेषां भुक्तखण्डानां योग इत्यर्थः, ततो भोग्यखण्डगुणितशेषांशादेस्तिथ्यंशकेन योगो योज्यस्ताः क्रान्तिकलाः स्युः, युक्तायनांशी ग्रहो यादृशे गोले दक्षिणोत्तरौ तद्वशायादिक सा भवति सायनांशग्रहे दक्षिणगोले दक्षिणा कान्तिः, उत्तरगोलस्य उत्तराकान्तिरित्यर्थः; उदाहरणं यथेष्टकालिकः सूर्यः १ । २१ । ३२ । ५४ अस्य भुजः १ । २१ । ३२ । ५४ अस्यांशाः ५१ । ३२ । ५४ पञ्चदशभक्ता लब्धखण्डानि ३ एषां त्रयाणा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy