SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । ( ४१ ) अशुद्धपूर्वैर्भवनैरजाद्यैर्युक्तं तनुः स्यादयनांशहीनम् । भोग्याल्पकाले खगुणाहतोऽर्कः स्वीयोदयाप्तांशयुतो विलग्नम् ॥ ४ ॥ नागकुरंगदस्रा अष्टसप्ताधिकद्विशतानि २७८ पलानि मीनमेषयोर्लेकोदयप्रमाणम्, गोंकाश्विनः २९९ वृषकुम्भयोः, रामरदाः ३२३ मकरमिथुनयोर्विनाढ्यः पलानि, एवं क्रमेण कर्कादीनाम्, एते षडुत्क्रमेण तुलाद्याः । अथ स्वदेशीयार्थमेते लंकोदयाः क्रमोत्क्रमस्थाः स्वैः प्रागुक्तप्रकारेण स्वदेशसाधितैश्वरखण्डैः क्रमोत्क्रमस्थैर्विहीनयुक्ता इत्यर्थः । एवं कृते मेषादिषण्णां राशीनामुदया भवन्ति, स्वदेशीया विलोम संस्था अमी मेषोदयास्तुलादिषण्णां भवन्ति ॥ अथ श्लोकत्रयव्याख्या । यातैष्यनाडीगुणितेत्यग्रे वक्ष्यमाणप्रकारेण तात्कालिकं सूर्य सायनांशं कृत्वा तस्य भागाद्यं यद्वतांशायं त्रिंशद्भिः शोधितं भोग्यांशादिकं कृत्वा तेन स्वोदयो यस्य राशौ सूर्यस्तस्य राशेः स्वोदयो गुणनीयस्ततः खायुद्धतो यल्लभ्यते तद्रवेर्भोग्यकालमुच्यते, तदिष्टघटीनां पलेभ्यो विशोधयेत्, तच्छेषादयस्थराश्युदया यावंतः शुध्यन्ति तावतो विशोधयेत्, तच्छेषं खाग्निगुणं कृत्वा शुद्धोदयेन भजेत् फलमंशादिग्राह्यं ततोऽशुद्धराशेः पूर्व यावन्तो मेषाद्या राशयस्तत्संख्यायां मूर्ध्नि युक्तं सद्राश्यायं लग्नं स्यात्, ततोऽयनांशहीनं कार्यम्, तत्स्पष्टलग्नं स्यात्, ग्रहाणां तात्कालिकीकरणे विशेष उच्यते- षष्ट्या हता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy