________________
( ३६ )
करणकुतूहलम् ।
त्रिस्था दशाष्टदशगुणा ५५ । ४४ । ५५ अन्त्या त्रिभक्ता चरखण्डानि ५५ । ४४ । १८ उदयान्तरसंस्कृतः स्पष्टोऽकैः १ । ३ । ७ । ३४ अयनांशैः १८ । १६ । १० युतः १ । २१ । २३ । ४४ अस्य भुजोऽयमेव भुजगृहमितयोगः भुजे १ राशिस्तेनैकचरखण्डस्य योगः ५५ भुक्तं शेषांशाः २१ । २३ । ४४ भोग्यखण्डेन ४४ गुणितं ९४१ । २४ । १६ त्रिंशद्भक्तं लब्धेन ३१ । २२ भुक्तचरखण्डयोगो ५५ युक्तः ८६ । २२ सुगमत्वात् २२ त्यक्तमुत्तरगोले सायनार्कस्तेनर्णरूपाणि, अथ चरकर्मचरपलैः ८६ सूर्यस्पष्टा गतिः ५७ । ९ गुणिता षष्टया भक्ता लब्धं विकला ८२ एवं चन्द्रस्य विकला १२०३ भौमस्य ७ बुधस्य १४८ गुरोः १६ शुक्रस्य ८७ शनेः १० राहोः ४ विना सर्वेषामृणम्, वक्रिणि विपरीतमिति वचनाद्राहो - कत्वाद्धनमेवं सर्वकर्म स्पष्टा औदयिका यन्त्रे लिखिताः ॥ २०॥
अथ तिथ्यादिसाधनं द्रुतविलम्बितद्वयेनाहविरविचन्द्रलवारवि १२षड् ६ हृताः पृथगितास्तिथयः करणानि च । कुरहितानि बवाच्छकुनिप्रभृ त्यसितभूतदलादि चतुष्टयम् ॥ २१ ॥ ग्रहकलाः सरवीन्दुकलाहृताः खखगजैश्व ८०० भयोगमिती क्रमात् । अथ हृताः स्वगतैष्यविलिप्तिकाः स्वगतिभिश्च गतागतनाडिकाः ॥ २२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com