SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ (३४) करणकुतूहलम् । अथोन्मण्डलस्थानां ग्रहाणां स्वक्षितिजस्यासनकर णाय चरकर्म प्रोक्तं तदक्षप्रभाक्षसाध्यं तेन तद्वयमपि मालिनीद्वयेनाह अयनलवदिनैः प्राइमेषसंक्रान्तिकालाद्भवति दिवसमध्ये याक्षभाक्षप्रभा सा । दश १० गज ८ दश १० निनी साक्षभान्त्या त्रिभक्ता प्रतिगृहचरखण्डान्यायनांशाव्यभानोः ॥ १९ ॥भुजगृहमितयोगो भोग्यखण्डांशघातात्वगुणलवयुगस्वं स्वं चरं गोलयोः स्यात् । चरपलगतिघातः षष्टिभक्तो विलिप्ताः स्वमृणमुदयकाले व्यस्तमस्तग्रहेषु ॥२०॥ अयनेति । अयनांशोत्पन्नदिनैर्मेषसंक्रमपूर्वतो यद्दिनं तस्य मध्याह्ने द्वादशांगुलशंकोर्या छाया साक्षप्रभा स्यात्, अथायनांशोत्थदिनानयनम्, अयनांशाः स्वद्विचत्वारिंशदंशेन हीनाः क्रियन्ते अयनदिनानि भवन्ति,अथ सूर्यस्य मेषादौ गतिःतस्मिन् ५९८ अयनांशाः संगुण्य षष्टया विभजेल्लब्धमयनदिनानि मध्यन्दिने मध्याह्नसमये द्वादशांगुलशंकोर्या छाया साक्षप्रभा भवति साक्षप्रभा स्थानत्रयस्थिता दशभिरष्टभिर्दशभिश्च क्रमेण गुणिता ततोऽन्त्या या दशगुणा सा विभिभक्ता त्रीणि चरखण्डानि भवन्ति एतावन्ति चरखण्डानि यावदष्टांगुलाक्षमा तावत्समीचीनानि ततः परं सान्तराणीति विचार्य ततोऽयनांशैर्युक्तस्य सूर्यस्य स्फुटार्कस्य भुजः कार्यस्तद्भुजराशिसमसंख्यचरखण्डयोगो विधेयः एवं जातं चरं सौम्यगोले Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy