________________
गणककुमुदकौमुदीटीकासमेतम्
( ३३ )
वर्द्धन्ते ततो मासद्वयं गतं तेन दश १० विकलाः युक्ता एवमयनांशाः १८ । १६ ।१० ॥ १७ ॥
अथ पूर्व ये ग्रहाः साधितास्ते मध्यमसावनोदयिकास्तान् स्फुटसावनोदयिककरणायोदयान्तरं पजात्याह
कर्मो
द्विघ्नस्य दोर्ज्या शरद्विलिप्ता भानोर्विधोः कक्षि२१ हृताः कलास्ताः । स्वर्ण च युग्मौ जयदस्थिash क्रमेण कर्मेत्युदयान्तराख्यम् ॥ १८ ॥ द्विघ्नस्येति - तैरयनांशैर्युक्तस्य मध्यमार्कस्य द्विगुणस्य भुजज्या पञ्चभिः ५भक्ता लब्धा विकला समविषमपदस्थिते सायनेऽर्के क्रमेण धनमृणं वा रवौ कार्य समपदस्थे सायनेऽर्के धनं कार्य विषमपदस्थे सायनेऽर्के ऋणं सैव भुजज्यैकविंशतिभिः २१ भक्ता लब्धं कलादि सूर्यवच्चन्द्रे धनमृणं वा कार्यम् एतदुदयान्तराख्यं कर्मापरेषामन्येषां स्वल्पान्तरत्वान्न कृतं यथायनांशैः १८ १६ । १० मध्यमोऽर्कः १ | १|३३| २६ युतः १।१९।४९। ३६ द्विगुणः ३।९ । ३९।१२ अस्य भुजः २।२० | २० | ४८ अस्य ज्या ११८।४ पञ्च ५ भक्ता लब्धा विकलाः २३ वेरुदयान्तरं सायनोऽर्को विषमपदे तेन स्पष्टे रवावृणं कार्यमेवमेषैव भुजज्या ११८ । ४ एकविंशतिभिः २१ भक्ता लब्धं कलादि ५ | ३७ सूर्यवत्स्पष्टे चन्द्रे ऋणं कार्यम् ॥ १८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com