SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ ( ३२ ) करणकुतूहलम् । नम्, एषामयनांशानां प्रतिवर्षमेकैककलाश्वाधिका उत्पद्यन्ते तत्पक्षे परमायनांशास्त्रिंशदंशाः ३० भवन्ति यत्पक्षे प्रतिवर्ष चतुःपञ्चाशद्विकलाः ५४ उत्पद्यन्ते तत्पक्षे सप्तविंशत्यंशाः परमायनांशा उत्पद्यन्ते, उक्तञ्च सूर्यसिद्धान्तटीकायां - प्रतिवर्षमेकलिप्ता षष्टिवर्षैरंशमेकमष्टादशवर्षशतैरेको राशिः षट्शताधिकैरेकविंशतिसहस्रैर्वर्षैर्भगणमेकं २१६०० चतुर्युगाब्दैरेभिर्वर्षे: ४३२०००० भगणशतद्वयम् २०० एवोत्पद्यते, अतः सूर्यसिद्धान्ते - त्रिंशदंशावधिचलनांशा जायन्ते प्राक चलनेऽयनांशाः गणकैर्योज्यन्ते न तु कदापि पात्यन्ते साम्प्रतं विषमराशित्वात्प्राक् चलनं प्राक् चलिते ये भक्तभागास्ते वृद्धिमन्तोऽयनांशा ज्ञेयाः एवं प्रत्यक् चलनमग्रतः समराशौ भविष्यति तत्र ये भुक्तभागास्ते त्रिंशद्भिः ३० शोधिता अत एवापवृत्त्या शेषं ज्ञेयास्तथायनांशा भविष्यन्ति तयक्तादर्कतः क्रान्त्यादिकं साध्यम्, 'अयनांशाः प्रदातव्या ने कान्तौ चरागमे । सत्रिने वित्रिने लगे दृक्कर्मणि सदा बुधैः ॥ कृते कर्मणि ते त्याज्या न त्याज्याः सूर्यपर्वणि' पुनः 'युक्तायनांशादवमः प्रसाध्यः कालौ च खेटात्खलु भुक्तभागौ ' इति, अतो यावन्तो गताब्दास्तावन्त्यः कला अयनांशा इत्युपपन्नं सविस्तरं ग्रन्थान्तरात्, यथात्र करणे गताब्दाः ४३६ कलाः षष्टिभक्ताः ७।१६ अंशादि अनेनांशादिना भवा एकादशांशाः ११ अन्विताः १८ । १६ । ० चैत्रात्प्रतिमासं पञ्च विकला Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy