________________
गणककुमुदकौमुदीटीकासमेतम् । (२९) भक्ता लब्धस्य चापं धनुः विशोध्य खण्डानीत्यनेन कार्य तदेव धनुः चञ्चलं शीघ्रफलं तत्फलं मन्दस्फुटे ग्रहे धनमृणं कार्य मेषतुलादिकेन्द्रवशात, मेषादिकेन्द्रे धनं तुलादिकेन्द्रे ऋणं तदा ग्रहः स्फुटः स्यात् ॥ १३ ॥ अथास्याप्यतिस्फुटत्वज्ञानं भौमस्य विशेषं चोपजात्याह
तदुत्थमायेन चलेन मध्यश्चेत्संस्कृतः स्पष्टतरस्तदा स्यात् । दलीकृताभ्यां प्रथमं फलाभ्यां ततोऽखिलाभ्यामसकृत्कुजस्तु ॥१४॥ तदुत्थेति । यत्स्फुटो जातस्तस्मादुत्थं तदुत्थं तेन तदुत्थेन मान्देन पुनस्तदुत्थचलेन चेन्मध्यमः संस्क्रियते तदासौ स्पष्टतरः स्यात् तदुक्तं भवति यः स्पष्टः कृतः स एव मध्यमः परिकप्यः तस्मात्मागुक्तप्रकारेण मन्दफलं संसाध्य मध्यमे संस्कार्यमित्यनयैव रीत्या स्पष्टतरः स्यात, एवमसरुद्यावत स्थिरः स्यात्, भौमस्य तु विशेषः प्रथमं मन्दफलेन दलीकतेन शीघ्रफलेन दलीकतेन चैवं दलीलताश्यां प्रथमं फलान्यां ततोऽखिलायां सम्पूर्णान्यामिति यस्तु दलीकृतमन्दफलान्यां संस्कृतस्तस्मान्मान्दं सकलं मध्यमे संस्कार्य तस्माच्छीघ्रं संसाध्य तस्मिन्नेव सकलं शीघ्रं संस्कुर्यात् इति पुनः पुनर्दलीकृताभ्यां ततोऽखिलाश्यां संपूर्णान्यामिति, यस्तु दलीकताभ्यां संस्कृतस्तन्मान्दं सकलं मध्यमे संस्कार्य तस्माच्छैध्यं संसाध्यं तस्मिन्नेव सकलं शैघ्यं संस्कुर्यादिति पुनः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com