________________
करणकुतूहलम् ।
देशान्तराब्दबीजविशुद्धेन ग्रहेण हीनं मृदूचं मन्दोचं चलमुच्चं शीघ्रोचं क्रमान्मन्दकेन्द्रं शीघ्रकेन्द्रं स्यात्, तथा च द्वादशराशीनां पदचतुष्टयं भवति तेषां प्रथमतृतीययोर्विषमसंज्ञा द्वितीयचतुर्थयोः समसंज्ञा, अथ मेषादिषट्कगते केन्द्रे फलं मध्यमग्रहे मन्दस्पष्टे च धनं तुलादिकेन्द्रे ऋणम् ॥ ३ ॥ अथ भुजकोटीनुपजात्याहत्र्यूनं भुजः स्यात्र्यधिकेन हीनं भाद्वै च भार्द्धादधिकं विभार्द्धम् । नवाधिकेनोनितमर्कभं च भवेच्च कोटिस्त्रिगृहं भुजोनम् ॥ ४ ॥
राशित्रयादूनं यदि केन्द्रं तदा स एव भुजः स्यात् यदि राशित्रयादूर्ध्वं केन्द्रं तर्हि तेन हीनं राशिषटुं भुजः राशिषद्वादधिकं केन्द्रं विभार्द्ध राशिषकहीनं भुजः स्यात् नवराश्यधिकेन केन्द्रेण हीना द्वादशराशयः भुजः अथ भुजेन हीनं राशित्रयं कोटिः स्यात् ॥ ४ ॥
अथ भौममन्दोच्च पराख्ययोः स्फुटीकरणं सार्द्धेन्द्रवज्रयाह
भौमाशुकेन्द्रे पदयातगम्य स्वल्पस्य लिप्ताः खखवेद ४०० भक्ताः । लब्धांशकैः कर्क मृगादिकेन्द्रे हीनान्वितं स्पष्टमसृग्मृदूच्चम् ॥५॥ लब्धांशकानां त्रिलवेन हीनः स्पष्टः परः स्यात्क्षितिनन्दनस्य । भौमस्य शीघ्रकेन्द्रं कृत्वेति मन्दस्पष्टात्तु यत् शीघ्रकेन्द्र कृत्वेति तद्ब्राह्यम् यदुक्तं सिद्धान्तशिरोमणौ-“मन्दस्फुटोऽस्मा
(२२)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com