________________
गणककुमुदकौमुदीटीकासमेतम् । ( २३ )
|
चलकेन्द्रपूर्वम्” इति, नरपतावपि " कार्य योच्चफलं प्राग्वद्दितीये मन्दकर्मणि । तेन संस्कृतमंदोच्चं संस्कृतं स्यात्परिस्फुटम् इति । लक्ष्मीदासमृगांककारिभिरित्थमेव प्रतिपादितम्, अतो मध्यममन्दोञ्चेन प्रथमफलानयनं ततः स्पष्टान्मन्दोच्चादानेयमिति पूर्वाचार्यमतमस्माकमप्येतदेवाभिमतम् । अथ शीघ्रकेन्द्रस्य त्रिभिस्त्रिभिर्भैः पदमिति पदे कल्पिते तस्य यातं तच्च राशित्रयात्पतितं तद्गम्यं तयोर्गतगम्ययोर्यदल्पं तस्य कलाः कार्या - स्ताश्चतुःशतै: ४०० भक्ता लब्धर्मशादिकं फलं तेन कर्कादिराशिष गते भौमशीघ्रकेन्द्रेऽसृमृदृञ्चं भौमस्य मन्दोच्चं हीनं कार्य मकरादिष गते तु युतः सन् स्फुटं भौममन्दोच्चं स्यात् ५ ॥ अथ स्वल्पस्य लिप्ताभ्यः खखवेदैर्लब्धफलस्यांशादिफलस्य त्रिलवेन तृतीयभागेन भौमस्य पराख्यो भौमपरो हीनः सन भौमस्य परः स्फुटः स्यात् ॥
अथ ज्यासाधनं सार्डेन्द्रवज्रयाहरूपाश्विनौ २१ विंशति २० रंकचन्द्रा १९ अत्यष्टि १७ तिथ्यर्कनवेषुदस्राः ॥ ६ ॥ ज्याखण्डकान्यंशमितेर्दशाप्तं स्युर्भुक्तखण्डान्यथ भोग्यनिघ्नाः । शेषांशकाः खेन्दु १० हृता यदाप्तं तद्भुक्तखण्डैक्ययुतं भवेज्या ॥ ७ ॥ एकविंशतिः २१ विंशतिः २० एकोनविंशतिः १९ सप्तदश १७ पञ्चदश १५ द्वादश १२ नव ९ पश्च ५ द्वि २ मितानि नव खण्डानि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
?
www.umaragyanbhandar.com