________________
..(२०) करणकुतूहलम् । त्युत्तरशतांशा द्वाविंशत्यंशाधिकराशिपञ्चकं गुरोः ५।२२ कष्टौ ८१ एकाशीत्यंशा एकविंशत्यंशाधिकराशिद्वयं शुक्रस्य २।२१,शनेः पाठद्वयं शशाङ्काङ्गन्यमाः २६१ एकषष्टयुत्तरद्विशतांशाः राशयोऽष्टौ ८ एकविंशत्यंशाः २१शनेः। वा मतङ्गानियमा इति पाठः। अष्टविंशत्यंशाधिकराशिसप्तकम् ७।२८ अत्र हेतुरुच्यते सिद्धान्तशिरोमणौ-शनिमन्दोच्चस्य कल्पे युगेषवो ५४ भगणास्तत्पक्षे मतङ्गानियमाः इति पाठः।मन्दोच्चस्य कुसागराः ४१ भगणा इति पाठस्तत्पक्षे शशाङ्कायमाः २६१ उत्पद्यन्ते । यत्पक्षे युगेषवो भगणा इत्यार्यसिद्धान्तमतं तथा चोक्तम्-सवितुरमीषाश्च तथा धात्रादिसदनिसिच्च मन्दोच्चमिति । तथा च मूर्यसिद्धान्ते-गोऽनयः शनिमन्दस्य तत्पक्षे शनेर्मन्दोच्चम् ७।२८।३७ एतदेवार्यभटसम्मतम् । अथ मृगांककरणप्रदीपे करणभाष्यादिषु मतङ्गाग्नियमाः२३८ इति मन्दोच्चं गृहीतं क्रमेण तद्वाक्यामिति महीधरा हस्तिकरा नृपाः खम् ७।२८।१६।०मन्दोच्चकानि कुञ्जरानलकराः२३८ शनेलवाः कीर्तिता इति निजमृदूच्चसम्भवा निजमृदूचं सम्भवति मन्दोच्चं तु मतङ्गामियमा इति शनेविशेष इत्याचार्यस्यैव पक्षेङ्गीकतम् । उक्तंच-'ज्योतिषमागमशास्त्रं विप्रतिपत्तौ न योग्यमस्माकम् । स्वयमेव विकल्पयितुं किन्तु बहूनां मतं वक्ष्ये” इति वचनम् ॥ १ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com