SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ (१०४) करणकुतूहलम् । नतांशाः साध्याः नतांशैींना नवति९० रुन्नतांशाः स्युः।अथ नतांशानामुन्नतांशानां च पृथक् २ ज्यां साधयेत् । अथ नतांशज्यका स्वकीयेन खेदात्पातयुतादित्यादिनागतेन स्फुटशरेगांगुलादिना गुणिता पुनर्गुणैत्रिभिर्गुणितोन्नतांशज्यया भक्ता लब्धं कलादिकं फलं शरनतांशानामेकदिक्त्वे स्फुटग्रहे धनं कुर्यादिन्नदिक्त्वे हीनं कुर्यात्माच्यां दिश्यथ प्रतीच्यामुदयास्तौ तदा व्यस्तं शरणतांशयोरेकदिक्त्वे हीनं भिन्नदिक्त्वे. धनं कुर्यादेवं जातो दृष्टखचरो ग्रहः स्यात्तस्य दृकर्मयहस्य तात्कालीनस्फुटसूर्यस्य च मध्ये योऽल्पः स रविः प्रकल्प्यः, अथ यो ग्रहोऽधिकस्तत्तनुर्लग्नं प्रकल्पनीयं तयोः कल्पितयोरर्कलग्नयोरन्तरे घटिकाः, प्राग्वत्कार्याः, अर्कस्य भोग्यस्तनुभुक्तयुक्त इत्यादिना साध्याः। प्रतीच्यान्तु राशिषट्दयुक्तयो रविहग्ग्रहयोर्घटिकाः साध्यास्ता घटिका रसैर्हताः कालांशका इष्टा भवन्ति त इष्टकालांशाः प्रोक्तेश्यः पूर्वपाठपठितकालांशेयो यद्यधिकास्तदोदयो गतः न्यूनाश्वेत्तदा गम्यः । अस्तमयस्तु व्यस्तः यदीष्टकालांशा अधिकास्तदास्तो गम्यः न्यूनास्तदास्तो गतः अथ प्रोक्ता ये कालांशास्तेषामिष्टकालांशानां चान्तरकलाः खानानिभिः शतत्रयेण गुणिताः सायनसूर्याधिष्ठितराशिस्वोदयपलैर्भक्ताः प्रतीच्यां तु सूर्याधिष्ठितराशेः सप्तमराश्युदयपलैर्मक्ता लब्धकला ग्रहस्य रवेश्च अत्यन्तरेण भक्ताः यदि ग्रहो वक्री तदा भुक्तियोगेन भक्ता Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy