________________
( १०० )
करणकुतूहलम् ।
७
१७ ।
अवक्रादीनां मार्गादीनां ये प्रोक्ता भागास्तेभ्योऽधिकभागानां कलाः शीघ्रकेन्द्रगत्या भक्ता लब्धैर्दिनादिभिर्ग तैरवकादयो भवन्ति अथ यदा प्रोक्तभागेभ्यो द्राक्केन्द्रभागा ऊनास्तदा प्राग्वल्लब्धदिनादिभिर्गम्यैरवक्रादयः स्युः, अत्रासन्ने वक्री कोऽपि नास्ति तेन तदुदाहरणं न दर्शितम् । मार्गस्योदाहरणं यथा भौमशीघ्रकेन्द्रम् ६ । २२ । ३३ । ४७ ग्रन्थोक्तमार्ग केन्द्रगतिः ६ । अनयोरन्तरांशाः ५ । ३३ । ४५ विकलाः २००२५ द्राक्वेन्द्रगत्या विकलारूपया भक्ता लब्धैदिनादिभिः १०।४३।३२ प्रोक्तेभ्योऽधिककेन्द्रांशत्वादिष्टसमयागतो मार्गी । एवं वैशाखकृष्णे ३ बुधे उदयानतघटी १६ । २८ समये मार्गी भौम एवं सर्वेषां कार्य बुधस्य पश्चिमोदयज्ञानाय शीघ्रकेन्द्रम् २ | ३ |८|४३ प्रोक्तकेन्द्रम् १|२०| ०|० अनयोरन्तरांशाः १३।८।४३ विकलाः ४७३२३ द्राक्वेन्द्रगत्या १८०।२४ भक्ता लब्धं दिनादि ४।२२ । १९ स्वल्पत्वात्पलानि त्यक्तानि प्रोक्तेभ्योऽधिकत्वागत उदयः एवं वैशाखकष्णे ८भौम उदयाङ्गतघटी ३७ । ४१ समये बुधस्य पश्चिमोदयो जात एवमन्येऽपि ॥ ८ ॥
गतिः ३१
1
010
अथ ग्रहाणां कालांशाः पातविक्षेपाः शार्दूलविक्रीडितेनाह
सूर्याः १२ सप्तदश १७ त्रिभूपरिमिता १३ रुद्रा ११ नवाक्षेन्दवः १५९ कालांशाः शशिनोऽनृजोः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com