SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । (९९) तरत्रिशत्या ३१० प्राच्यामस्तः शुक्रस्य षट्त्रिंशदधिकशतत्रयेण ३३६ प्राच्यामस्तः । ज्ञशुक्रावृजू प्रत्यगुद्गम्य क्रां गतिं प्राप्य तत्रैव यातः प्रतिष्ठाम् । ततः प्राक् समुद्गम्य वक्रावृजुत्वं समासाद्य तत्रैव चास्तं व्रजेतामिति विशेषः । यदि स्पष्टार्कस्य स्पष्टग्रहयोरन्तरं वक्ष्यमाणकालांशतुल्यं स्यात्तदोदयोस्तो वा भविष्यतीति ज्ञेयमिदन्तु मध्यमसूर्यस्फुटसूर्ययोरन्तरं कालं यदा भवति तदोदयास्तौ स्थूलत्वमेवाङ्गीकृतं तथाविधो ग्रहो यावति केन्द्रेण सता स्पष्टो भवति तावत्केन्द्रमुदयास्तसूचकमुक्तम्, अथवैभिरक्तशीघ्रकेन्द्रभागैः शीघ्रफलं यावंतोंऽशा उत्पद्यन्ते तदंशस्वकालांशयोर्योगः। एतावदंशाः स्फुटास्ते सूर्यात्पूर्वतः परतश्च तावन्त एव, यथा सूर्यः ११७।५६।१४ मन्दफलसंस्कृतो गुरुः १०।२३। ५६।१४ शीघ्रकेन्द्रम् ०१४ भुजज्या २९ कोटिज्या ११६ कर्णः ४२।२१ शीघ्रफलम् २।१३।५२ स्पष्टो गुरुः १०॥ २६।१०।६ मध्यार्कः ११७।५६।१४ अन्तरम् ०।११। ४६ रुद्रमितकालांशतुल्या भागा मध्याग्रहयोरन्तरस्थिता अतोऽत्रोदयसम्भवः स्थूलत्वादल्पान्तरमुपेक्षितम् ॥ ७॥ अथ वक्रादीनां दिनाद्यानयनमाहअवक्रवक्रास्तमयोदयोक्तभागाधिकोनाः कलिका विभक्ताः । द्राकेन्द्रभुक्त्याप्तदिनैर्गतैष्यैरवक्रवकास्तमयोदयाः स्युः॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy