________________
(९८) करणकुतूहलम् । अयोदयास्तसम्भवज्ञानं भौमगुरुशनीनामुपजात्याहप्राच्यामुदेति क्षितिजोऽष्टदौः शरैर्गुरुःसप्तकुभिश्च मन्दः । स्वस्वोदयांशोनितचक्रभागैस्त्रयो व्रजंत्यस्तमयं प्रतीच्याम् ॥६॥
प्राच्यामिति । भौमोष्टाविंशत्या २८ स्थितैः केन्द्रांशकैः पाच्यामुदेति तथा गुरुश्चतुर्दशभिः १४ शनिः सप्तदशभिः१७ अथोदयांशैश्चक्रांशेश्यः ३६० शोधितैस्तत्तद्गृहस्य प्रतीच्यामस्तमयो भवति तद्यथा भौमो द्विदेवैः ३३२ जीवोऽङ्गवेदामिभिः ३४६ शनिस्त्रिवेददहनैः ३३४ प्रतीच्यामस्तमेति । उक्तं च “रवेरूनाक्तिर्महः प्रागुदेति प्रतीच्यामसावस्तमेत्यन्यथान्यः" ॥ ६॥ अथ बुधशुक्रयोरुदयास्तज्ञानं वसन्ततिलकेनाहखा: ५० जिनै २४ सितयोरुदयः प्रतीच्यामस्तश्च पञ्चतिथिभि १५५ मुनिसप्तभूभिः १७७॥ प्रागुद्गमः शरनखै २०५ स्त्रिधृतिप्रमाणे १८३ रस्तश्च तत्र दशवह्निभि ३१० रङ्गदेवैः ३३६॥ ७॥ पञ्चाशद्भिः शीघ्रकेन्द्रांशैव॒धस्य प्रतीच्यामुदयः; चतुर्विशद्धिः १४ शुक्रस्य, पञ्चपञ्चाशदुत्तरशतेन १५५ बुधस्य प्रतीच्यामस्तः, सप्तसप्तत्युत्तरशतेन १७७ शुक्रस्य पश्चिमायामस्तः । अथ बुधस्य पञ्चोत्तरद्विशत्या २०५ प्राच्यामुदयः, शुक्रस्य व्यशीत्युत्तरशतेन १८३ प्राच्यामुदयः, बुधस्य दशो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com