________________
गिरनारना लेख नं. ५ भनकपुरस्तंभतीर्थदर्भवतीधवलक्ककप्रमुखनगरेषु तथा अन्यसमस्तस्थानेष्वपि कोटिशोभिनवधर्मस्थानानि प्रभूतजीर्णोद्धाराश्च कारिताः ॥ तथा सचिवेश्वरश्रीवस्तुपालेनेह स्वयंनिर्मापितश्रीशत्रुजयमहातीर्थावतारश्रीमदादितीर्थकरश्रीऋषभदेवस्तंभनकपुरावतारश्रीपार्श्वनाथदेवसत्यपुरावतारश्रीमहावीरदेवप्रशस्तिसहितकश्मीरावतारश्रीसरस्वती मूर्तिदेवकुलिकाचतुष्टयजिनयुगलअम्बावलोकनाशाम्बप्रद्युम्नशिखरेषु श्रीनेमिनाथदेवालंकृतदेवकुलिकाचतुष्टयतुरगाधिरूढस्वपितामहमहंश्रीसोमनिजपितृ ठ श्रीआशाराजमूर्तिद्वितयचारुतोरणत्रयश्रीनेमिनाथदेवआत्मीयपूर्वजाग्रजानुजपुत्रादिमूर्तिसमन्वितसुखोद्घाटनकस्तंभश्रीअष्टापदमहातीर्थप्रभृतिअनेककीर्तनपरंपराजिते श्रीनेमिनाथदेवाधिदेवविभूषितश्रीमदुजयंतमहातीर्थे आत्मनस्तथा स्वधर्मचारिण्याः प्राग्वाटजातीय ठ श्रीकान्हडपुत्र्याः ठ राणुकुक्षिसंभूतायामहं श्रीललितादेव्याः पुण्याभिवृद्धये श्रीनागेंद्रगच्छे भट्टारकश्रीमहेंद्रसूरिसंताने शिष्यश्रीशांतिसूरिशिष्यश्रीआणंदसूरिश्रीअमरसूरिपदे भट्टारकश्रीहरिभद्रसूरिपट्टालंकरणप्रभुश्रीविजयसेनसूरिप्रतिष्ठितश्रीअजितनाथदेवादिविंशतितीर्थकरालंकृतोयमभिनवः समंडपः श्रीसमेतमहातीर्थावतारप्रासादः कारितः ॥ छ । सश्रीजिनाधिपतिधर्मधराधुरीणः श्लाघास्पदं कथमिवास्तु न वस्तुपालः । श्रीशारदासुकृतकीर्तिनयादिवेण्याः पुण्यः परिस्फुरति जंगमसंगमो यः ॥ १ ॥ विभुताविक्रमविद्या विदग्धताविचविवतरणविवेकैः ॥ यः सप्तभिर्विकारैः कलितोपि बभार न विकारं ॥२॥ यस्य भूः किमसावस्तु वस्तुपालसुतः सदा ॥ नावासावथाप्येतो धर्मकर्मकृतौ कृतौ ॥ ३ ॥ कस्यापि कवितानविन-स्य हृदयामुखं ॥ वास्तव्यं वस्तुपालस्य पश्यामस्तद्वयं च यं ॥४॥ दुर्गः स्वर्गगिरिः सकल्पतरुभिर्मेनै न चक्षुः पथे तस्थौ कामगवी जगाम जलधेरंतः स चिंतामणिः ॥ कालेऽस्मिन्नव
लोक्य यस्य करुणं तिष्ठेति कोन्यः स्वतः पुण्यः લેખ ૯
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com