SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ राजकवि नानाकनी प्रशस्ति यः पौराणैर्वचनमधुमिः प्रौठपीयूषपाकप्रेयोभिः प्रागधिकमषिकनो(sic. )दि(sic.) श्वलक्षोणिपालः । तृप्तिं तस्य त्रिदशसुहृदः पिण्डदानैरिदानी दर्शे दर्शे रचयति च यः शेखरः श्रोत्रियाणां ॥ २७ ॥ तीर्थाम्बुशतपत्रालिशालिनैवेद्यवन्दनैः । यः प्रीणयति नानाकः पिनाकभृतमन्वहम् ॥ २८॥ सन्तुष्यता यदुरुभक्तिगुणेन गण्डश्रीवीरभद्रवपुषि सकलां निवेश्य । यः शंकरेण निरमीयतमंगलाख्यग्रामाभिरामतमसप्तमभागभोगी ।। २९ ।। सरस्वत्यामत्यादरजनितनित्याहिकविधिर्महायज्ञैः पूतः सततमतिथीन् भोजयति यः। स नन्द्यान्नानाकश्विरसमयमानाकविकसद्यशः स्तोमः सोमेश्वरचरणचिन्ताचतुरधीः ॥ ३० ॥ यो मुख्यः सुधियां यमाहुरनघं येनार्जिताः कीर्चयः यस्मै वेश्म दिदेश विश्वल. नृपो यस्मान दोषोदयः । यस्य श्रेयसि वासनातिमहती यस्मिन्नमन्तें गुणाः सोऽयं सप्तपदीनमेतु सुकृतै नाकनामा कृती ॥ ३१ ॥ मानुप्यर्द्विजता दुरासदतरा तत्राप्यसौ नागरज्ञातिः ख्यातिमती श्रुतौ परिचयस्तावा ( ? )त्रयोत्थाः श्रियः । भाग्यरेतदवाप्य यौवनगृहस्वर्णादिपण्यांगना (sic.) चेतश्वञ्चलमप्यवेत्य सुकृतं नानाक एवार्जति ॥ ३२ ॥ श्रीमद्वीसलमेदिनीपरिवृढप्रक्षालितांघ्रिद्वयः सोऽयं नागरनीरजाकररवि नाकनामा कविः तीर्थोत्तुंगसरस्वीकृतपरिष्वंगस्य सारस्वतं क्रीडाकेतनमेतदत्र विदधे वारांनिघे रोषसि ॥ ३३ ॥ श्रीसोमनाथमहिमा भुवनेषु यावद्यावनिहन्ति दुरितानि सता( तां)कपर्दी । यावच गर्जति पयोनिघिरेष तावत् सारस्वतं सदनमक्षयमेतदस्तु ॥ ३४ ॥ नानाक एष जयताद्दयितास्य लक्ष्मीः शाश्वत्कुसुम्भवसनैव जरामुपैतु । किंचैनयोः । सुतनयोऽपि नयोपसंगी गंगाधरः सुचरितेन कुलं पुनातु ॥ ३५ ॥ अष्टावधानपरितुष्टहृदा जनेन यः कीर्तितो जगति बालसरस्वतीति । पुत्रः कविः कुवलयाश्वचरित्रधातुः कृष्णः प्रशस्तिमिह रत्नसुतः स तेने ॥ ३६ ॥ ॥ सो पाल्हणेन प्रशस्तिरालिख्योत्कीर्णा ।। લેખ ૧૮ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy