________________
[ ३६ ] चन्द्राभिवद्धितरूप पञ्चसंवत्सरात्मकं सूर्यसंवत्सरापेक्षया परि भाव्यमानमन्यूनातिरिक्तानि पंचवर्षाणि भवन्ति सूर्यमासश्च सार्दुत्रिंशदहोरात्रिप्रमाण चन्द्रमास एकोनविंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य ततो गणितसंभावनया सूर्यसंवत्सर सत्क त्रिंशन्मासातिक्रमे एकश्चन्द्रमासोधिको लभ्यते। सच यथा लभ्यते तथा पूर्वाचार्य्यप्रदर्शितेयं करणं गाथा ॥ चंदस्स जो विसो आइच्चस्सइ हविज्ज मासस्स तीसह गुणिओ संतो हवइ हु अहि मासगो एक्को॥१॥अस्याक्षरगमनिका आदित्यस्य आदित्यसंवत्सरसम्बन्धिनो मासस्य मध्यात् चंद्रस्य चंद्रमासस्य यो भवति विश्लेष इह विश्लेष कृते सति यदवशिष्यते तदप्युपचाराद्विश्लेषः स त्रिंशता गुण्यते गुणितः सन् भवत्येकोऽधिकमासः तत्र सूर्यमासपरिमाणात् सार्द्ध त्रिंशदहोरात्ररूपं चंद्रमासपरिमाणमेकोनत्रिंशद्दिनानि द्वात्रिंशश्च द्वाषष्टिभागा दिनस्येत्येवं रूप शोध्यते ततः स्थितं पश्चादिनमेकमेकेन द्वाषष्टिभागेन न्यूनं तच्च दिनं शिशता गुण्यते जातानि शिद्दिनानि एकश्च द्वाषष्टिभाग त्रिंशता गुणितो जातास्त्रिंशद्वाषष्टिभागास्त त्रिंशदिनेभ्यः शोध्यन्ते तत स्थितानि शेषाणि एकोनशिदिनानि द्वात्रिंशश्च द्वाषष्टिभागा दिनस्य एतावत्परिमाणश्चान्द्रोमास इति भवति सूर्य संवत्सर सत्क त्रिंशन्मासातिक्रमे एकोऽधिकमासो युगे च सूर्यमासाः षष्टिस्तो भूयोऽपि सूर्यसम्वत्सर सत्क त्रिंशम्मासातिक्रमे द्वितीयोऽधिकमासो भवति । उक्तंच सट्ठीए अश्याए हवइ हु अहिमासगो जुगर्बुमि बावीसे पवसए हवइहु बीओ जुगतमि ॥१॥ अस्यापि अक्षरगमनिका एकस्मिन् युगे अनंतरोदित स्वरूपे पर्वणां पक्षाणां षष्टौ अतीतायां षष्टिसंख्येषु पक्षेष्वति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com