________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासी नाम तृतीयः सर्गः- ६५ वत्यः । नतृतः सहावं सशृङ्गारचेष्टं नर्तितवत्यः । सविभ्रम नेमुः सविलासं प्रणताः । उदारमूचुः अग्राम्यमुक्तवत्यः ॥ १२६-वस्त्राऽन्न-पानं शयनं च नाना
कृत्वाऽवकाशे रुचि-संप्रलुप्तम् ॥ तान् प्रीति-मानाह मुनिस् ततः स्म
'निवध्वाध्वं, पिबतोऽत्त शेध्वम्.' ॥ ४४ ॥ वस्त्रेत्यादि-ततो वनितोपस्थानानन्तरमवकाशे प्रदेशे यथामिमते वस्त्रानपानम् । सर्वो द्वन्द्वो विभाषैकवद्भवतीत्येकवद्भावः । शयनमित्यधिकरणे ल्युट् । नाना कृत्वा पृथक् कृत्वा । रुचिसंप्रक्लप्तम् । यस्य यावदमिरुचितं तत्तथैव संपा. दितम् । '२३५०। कृपो रो लः ।।२।१८' । प्रीतिमान्मुनिस्तान् भरतादीनाह स उक्तवान् । किमाह-निवध्वं परिधत्त वस्त्राणि । १०९२॥ वसँ भच्छादने ।' इत्यस्य विधौ लोट् । '५२। झलां जश् झशि ।।४।५३' इति सकारस्य दकारः । आध्वं उपविशत । भासेः पूर्ववत् दादेशः। अत्त खादत अन्नादिकम् । १०८० । अर्दै भक्षणे।' इत्यस्मात् लोट् । पानादिकं पिबत । पिबतेः '२३६०। पा-घ्रा१३७१७८।' इति सूत्रेण पिबादेशः । शेध्वम् स्वपित शयने । सर्वत्र विधौ लोट् ॥ १२७-ते भुक्तवन्तः सु-सुखं वसित्वा
वासस्युषित्वा रजनी प्रभाते ॥
द्रुतं समध्वा रथ-वाजि-नागैर्
__ मन्दाकिनी रम्य-वनां समीयुः ॥ ४५ ॥ ते भुक्तेत्यादि-ते भरतादयः सुसुखमिति क्रियाविशेषणम् । भुक्तवन्तः सन्तो वासांसि । वसित्वा परिधाय । रजनीमुषित्वा रजनी रात्रिं ।'३०४६। वसति-क्षुधोः-७।२।५२।' इतीद । '५५८। कालाऽध्वनोः-२।३।५।' इति द्वि. तीया । द्रुतं शीघ्रं प्रभाते मन्दाकिनी नदी समीयुः संभूय गताः । समध्वा अविच्छिनाध्वानः । सङ्गता अध्वन इति प्रादिसमासः । ९५३। उपसर्गादध्वनः 1५।४।०५।' इति समासान्तष्टच् । रथवाजीति द्वन्द्वैकवद्भावः । तेन सहिता नागा इति शाकपार्थिवादिस्वात् समासः। अन्यथा सेनाङ्गत्वात् समुदायस्यैकवभावः स्यात् । रम्यवनां रमणीयकाननां रमणीयजलां वा ॥ १२८-वैखानसेभ्यः श्रुत-राम-वार्तास्
ततो विशिञ्जान-पतत्रि-सङ्घम् ॥ अभ्र-लिहाऽयं रवि-मार्ग-भङ्गम्
आनंहिरे ऽद्रिं प्रति चित्र-कूटम्॥४६॥ वैखानसेत्यादि-ततो मन्दाकिनीगमनानन्तरं वैखानसेभ्यस्तृतीयाश्रमिShree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com
...