________________
६४ भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः, योगविभागाद्वा । कीदृशम् । अध्यापयन्तं पाठयन्तम् । कान् वाचंयमान् मौनवतान् । '२९५६ वाचि यमो व्रते ।३।२।५०।' इति खच् । '२९५७। वाचंयम-पु. रंदरौ च ।६।३।६९' इति निपातनात् पूर्वपदस्य अमन्तता । स्थण्डिलशायिनः भूशायिनः । १२१६। स्थण्डिलाच्छयितरि व्रते ।४।२।१५।' इति णिनिः । युयुक्ष. माणान् योक्तुमिच्छतः। योगाभ्यासनिष्ठा नित्यर्थः । अनिशमविच्छेदेन मुमुक्षून् । मोक्षाभिलाषिण इत्यर्थः । अतएव योगाभ्यासमिच्छून् ॥ १२४-आतिथ्यमभ्यः परिनिर्विवप्सोः
कल्प-द्रुमा योग-बलेन फेलुः, ॥ धाम-प्रथिनो दिमाऽन्वितानि
वासांसि च द्राघिम-वन्त्युदूहुः॥ ४२ ॥ आतिथ्यमित्यादि-अतिथ्यर्थमातिथ्यमनपानादि । २०९४। अतिथेयः ११।२६।' एभ्यो भरतादिजनेभ्यः इति संप्रदाने चतुर्थी । परिनिर्विवप्सोः निर्वसुमिच्छोः । दातुमिच्छोरित्यर्थः । निपूर्वो वपिर्दाने वर्तते । धामप्रथिन्नः । धाम्ना तेजसा प्रथिमा पृथुत्वं यस्य । तेजसो बहिर्निर्गतत्वात् शरीरस्य पृथुत्वं जायते । तस्य भरद्वाजमुनेर्योगबलेन समाधिबलेन। १२५३। युज समाधौ।' इत्यस्य रूपम् । कल्पद्रुमाः फेलुः फलिताः। भक्ष्यानपानादिकमित्यर्थः । '२३०१॥ तृ-फल-भज. त्रपश्च ।६।४।१२२' इत्येत्वमभ्यासलोपश्च । वासांसि च वस्त्राणि उदूहुः उद्वहन्ति स । यजादित्वात् संप्रसारणम् । म्रदिमान्वितानि मृदुत्वमुपगतानि । द्राधिमवन्ति दैर्घ्ययुक्तानि । पृथुमृदुदीर्घशब्देभ्यस्तस्य भाव इत्यर्थे १७८४॥ पृथ्वादिभ्य इमनिच्-५।१११२२।। पृथुमृदुशब्दयोः (१७८५। र ऋतो हलादेः।६19॥१६॥' इति रादेशः । दीर्घशब्दस्य २०१६ प्रिय-स्थिर-1६१५७।' इत्यादिना द्राधादेशः पश्चान्मतुम् ॥ १२५-आज्ञा प्रतीषुर, विनयादुपास्थुर्,
जगुः सरागं, ननृतुः स-हावम्, ॥ स-विभ्रमं नेमुरुदारमूचुस्
तिलोत्तमाऽऽद्या वनिताच तस्मिन्.॥४३॥ आज्ञामिति-तस्मिंस्तपोवने तिलोत्तमाद्या वनिता दिव्यस्त्रियः भागता आज्ञामादेशं मुनेः प्रतीषुः प्रतीष्टवत्यः । चेटीभवत्य इत्यर्थः । प्रतिपूर्व इषिर्ग्रहणे वर्तते तस्य लिटि रूपम् । विनयादुपास्थुः उपस्थिताः । पादप्रक्षालनादिदानेन उपस्थानं कृतवत्यः । उपपूर्वात्तिष्ठतेनुंङि सिच् । २२२३। गाति-स्था-२४७७।' इति सिचो लुक् । '२२२६॥ सिजभ्यस्तविदिभ्यश्च ।३।४।१०९।' इति झेर्जुस् । '२२१४। उस्यपदान्तात् ।६।०९६।' इति पररूपम् । जगुः सरागं सरकं गीतShree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com