________________
तथा लक्ष्य रूपै कथानके राम-प्रवासो नाम तृतीयः सर्गः -
६३
कियन्तमपि कालमा रमन्ति स्म । '२७४९ । व्याङ्-परि-भ्यो रमः । १।३।८३ |' इति परस्मैपदम् । अशङ्कं विज्धम् । छायां समाश्रित्य विशश्रमुः विश्रान्ताः ॥ १२१ - संप्राप्य तीरं तमसाऽऽपगाया गङ्गाऽम्बु- सम्पर्क-विशुद्धि-भाजः ॥ विगाहितुं यामुनमेम्बु पुण्यं ययुर् निरुद्ध-श्रमवृत्तयस् ते. ॥ ३९ ॥
संप्राप्येत्यादि - तमसापगायाः तमसाख्यायाः आपगायाः नद्याः । 'अत्यविचमि तमि नमि-रभि लभि तपि पति-जनि पणि-गहि-भ्योऽसच्' । यस्याः स्मरणात्पापं ताम्यति सा तमसा तरसा इति पाठान्तरम् । तत्र तरसा वेगेन आपगाया अर्थात्तमसाया नद्या गङ्गाम्बुसम्पर्कात् विशुद्धिं पवित्रतां भजते या तस्यास्तीरं कूलं सम्प्राप्य गत्वा ते जना निरुद्धश्रमवृत्तयः ययुः गताः । गङ्गेति गन् गम्यद्योरित्यौणादिको गन् । विगाहितुं विगाहिष्यामह इति कृत्वा । यामुनमम्बु यमुनाया इदं यमुनासम्बन्धि जलम् । पुण्यं पुण्यहेतुत्वात् पुण्ययुक्तत्वाद्वा ॥ १२२ - ईयुर् भरद्वाज - मुनेर् निकेतं,
यस्मिन् विशश्राम समेत्य रामः ॥ च्युताऽशनायः फलवद्-विभूत्या व्यस्यन्नुदन्यां शिशिरैः पयोभिः ॥ ४० ॥
ईयुरित्यादि - भरद्वाजमुनेर्निकेतं आश्रममीयुः गताः । ' २४५५ । इणो यण् |६|४|८१|' इति यत्वम् । अभ्यासस्य ' २४५६ | दीर्घ इणः किति | ७|४६९॥ * इति दीर्घत्वम् । यस्मिन्निकेते रामो विशश्राम विश्रान्तः । समेत्य मिलित्वा । तमीयुर्जना इति योज्यम् । फलवद्विभूत्या फलवतां वृक्षाणां समृद्ध्या हेतभूतया च्युताशनायोsपगतबुभुक्षः | २६६१| अशनायो - | ७|४ | ३४ |' इत्यादिना निपातितः । व्यस्यन् उदन्यां वारयन् । असेर्दैवादिकस्य रूपम् । उदन्यां पिपासां शिशिरैः शीतलैः पयोभिः ॥
१२३ - वाचं - यमान् स्थण्डिल- शायिनश् च युयुक्षमाणाननिशं मुमुक्षून् ॥ अध्यापयन्तं विनयात् प्रणेमुः
पना भरद्वाज - मुनिं स शिष्यम्. ॥ ४१ ॥
वाचमित्यादि - ते भरद्वाजमुनिं सशिष्यं शिष्यैः सह वर्तमानं प्रणेमुः प्रणमन्ति स्म । चिनयात् विनयेन । अत एव पगाः पदातयः पादाभ्यां गच्छन्तीति । '३०११। अन्येष्वपि दृश्यते | ३ | २|१०१ |' इति डः । १९९२ | हिमकाषिहतिषु
|६|| |५४ |' इति चकारस्य अनुक्तसमुच्चयार्थत्वात् गमोत्तरपदे पदादेशः । पदिति Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com