________________
६२ भट्टिकाव्ये – प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे तृतीयो वर्गः,
1
इति हिरादेशः । रामं प्रत्यानिनीषुः प्रत्यानेतुमिच्छुः । विनयेन प्रसादनया न भयादरण्यं वनं प्रायात् गतवान् । भरतः सह पैौरैः । अयोध्याभवैर्जनैर्मयैकेन प्रसाद्यमानः कदाचिन्नागमिष्यतीति ॥
११९ - शीघ्रायमाणैः ककुभोऽश्नुवानैर् जनैर - पन्थानमुपेत्य सृतैः ॥ शोकाद॑ भूषैरपि भूशू चकासाञ्चकार नागेन्द्र-रथाऽश्व-मिश्रैः ॥ ३७ ॥
·
शीघ्रेत्यादि -- जनैर्हेतुभूतैर्भूश्चकासाञ्चकार शोभते स्म । कर्तुः क्रियाफलयोगेऽपि नात्मनेपदम् । आम्प्रत्ययवदित्यन्न पूर्वग्रहणानुवृत्तेः । चकासेश्च परस्मैपदित्वादिति विधिनियमौ स्थितौ । शीघ्रायमाणैः अशीघ्रैः शीघ्रैर्भवद्भिर्झटिति गच्छद्भिरित्यर्थः । ‘२६६७ | भृशादि - | ३ | १|१२|' इति क्यङ् । ङित्त्वात्तङ् । कुकुभोऽक्षुवानैः दिशो व्याप्नुवद्भिः । अनोतेः सौवादिकस्य आत्मनेपदिनो रूपम् । अपन्थानमुमेत्य सृतैः बहुत्वादमार्गमपि गत्वा गतैः । '९४०। ऋक्पूर्-१५।४।७४।’ इत्यादिना समासान्तः प्राप्तो ' ९५६ । ननस्तत्पुरुषात् |५|४|७१।' इति प्रतिषिद्धसन् ‘९५७। पथो विभाषा | ५|४|७२ | ' इति विकल्पितः । शोकाद्धेतोरभूषैरनः लङ्कारैरपि चकासाञ्चकार । भूः भूमिः । भूषेति ' ३२८० । गुरोश्च हलः | ३|३| १०३।' इत्यकारप्रत्ययः । ' ११४८। चकासृ दीप्तौ' इत्यस्मात् कास्यनेकाज्ग्रहणं चुलुम्पाद्यर्थमित्याम् । नागेन्द्ररथाश्वमिति द्वन्द्वे एकवद्भावः । अल्पाच्तरस्य न पूर्वनिपातः । ' बहुध्वनियमः' इति वचनात् । तेन सेनाङ्गत्वात् कृतैकवद्भावेन मिश्रैर्युकैः । ६९३ । पूर्व- सदृश - २।१।३१।' इत्यादिना तृतीयासमासः ॥ १२० - उच्चिक्रेि पुष्प - फलं वनानि, सस्नुः, पितॄन् पिप्रियुरोपगासु, ॥ आरेदुरिवापुलिनान्य॑शङ्कं,
छायां समाश्रित्य विशश्रमुश्च ॥ ३८ ॥
:
उच्चीत्यादि - ते जनाः गच्छन्तः पुष्पफलं पुष्पाणि फलानि चेति (९१० । जातिरप्राणिनाम् | २|४|६|' इत्येकवद्भावः । उच्चिक्यिरे उच्चितवन्तः । जित्वात्तङ् कर्तुः क्रियाफलयोगात् । '२५२५ | विभाषा चेः | ७|३|५८|' इति धातोः कुत्वम् । ‘२७२। एरनेकाचः-।६।४।८२ ।' इति यणादेशः । उच्चिच्चिर इति पाठान्तरं युक्तम् । वनानीति हेतुत्वेन '५३९ | अकथितं |१|४|५१ |' कर्म । वनानि विघइयन्तः फलानि जगृहुरित्यर्थः । ततः सस्रुः स्नातवन्तः । स्नातेर्लिटि ' २२१४ ॥ उस्यपदान्तात् ।६।१।९६ ।' इति पररूपम् । पितॄन् पिप्रियुः उदकाञ्जलिना तर्पितवन्तः । प्रीणातेर्लिटि इयादेशः । आपगासु नदीषु । एतत् कृत्वा पुलिनानि सैकतानि इत्वा आरेदुः आरटिताः । आरेमुरिति पाठान्तरम् । शोकापनोदनार्थ
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com