________________
तथा लक्ष्य-रूपे कथानके राम प्रवासो नाम तृतीयः सर्गः -
११६ - उदक्षिपन् पट्ट- दुकूल-केतूनु॑वादयन् वेणु-मृदङ्ग-कांस्यम्, ॥ कम्यू॑श् च तारान॑धमन् समन्तात्, तथाऽऽनयन् कुङ्कुम-चन्दनानि ॥ ३४ ॥
६१
1
-
उदेत्यादि - पट्टदुकूल विरचितान् केतून् ध्वजानुदक्षिपन् उच्छ्रितवन्तः ये नियुक्ताः । क्षिपेस्तौदादिकस्य ग्रहणम् । वेणुमृदङ्गकांस्यं वंशमुरजकांस्यतालमवादयन् वादितवन्तः । वदेर्ण्यन्तस्यैव प्रयोगः । '९१० । जातिरप्राणिनाम् | २|४६॥' इत्येकवद्भावः । न पुनस्तूर्याङ्गत्वात् । तत्रहि प्राणिनां तूर्याङ्गाणां द्वन्द्वैकवद्भावः । यथा मार्दङ्गिकपाणविकमिति । 'वृ-तु- वदि हनि कमि कषिभ्यः सः ।' इत्यौणादिकः कंसशब्दः । तदर्थाय हितं कंसीयम् । त्रपुणा दृढद्रव्यम् । प्रकृतिविकारभावे छः । तस्य विकार इति । '१५४७| कंसीयपरशव्ययोर्यत्रजौ लुकू च ४।३।१६८।' इति छस्य लुकू यञ् च प्रत्ययः । कम्बून् शङ्खान् । तारान् उच्चैस्तरध्वनीन् । अधमन् शब्दितवन्तः । '२३६० | पाघ्रा - १७१३।७८ । ' इत्यादिना धमादेशः । तथा कुङ्कुमचन्दनानि आनयन् आनीतवन्तः । सर्वत्र लङि रूपम् ॥ अन्त्येष्टिं दर्शयन्नाह -
११७ - श्रोत्राऽक्षि- नासा वदनं स-रुक्मं कृत्वाऽजिने प्राकू - शिरसं निधाय ॥ सञ्चित्य पात्राणि यथा-विधानमृत्विग् जुहाव ज्वलितं चिताऽग्निम् ॥ ३५ ॥
श्रोत्रेत्यादि - भजिने कृष्णसारचर्मणि प्राक् पूर्वं शिरो मूर्धा यस्येति तं प्राकुशिरसं शवं निधाय स्थापयित्वा पश्चात् श्रोत्राक्षिनासावदनम् । प्राण्यङ्गत्वादेकवद्भावः । वृतृवदीत्यादिसूत्रस्यानन्तरं नयतेरा चेति प्रकृतेराकारे नासेत्यौणादिकं रूपम् । सरुक्मं ससुवर्ण कृत्वा । सञ्चित्य विन्यस्य अङ्गप्रत्यङ्गेषु । पात्राणि स्रुगादीनि । यथाविधानं यादृशं विधानमुक्तं गृह्यशास्त्रे । ऋत्विग्याजकः । ऋतौ यजतीति '३७३ । ऋत्विग्- दष्टग् |३|२|५९ |' इत्यादिना निपातितः । ज्वलितं चिताम् । ज्वलनं चितं तदर्थमग्निं जुहाव जुहोति स्म ॥
११८ - कृतेषु पिण्डोदक - सञ्चयेषु, हित्वाऽभिषेकं प्रकृतं प्रजाभिः ॥ प्रत्यानिनीषुर् विनयेन रामं
प्रायादरण्यं भरतः स - पौरः ॥ ३६ ॥
कृतेष्वित्यादि -- पिण्डोदकदानास्थिसञ्चयेष्वनुष्ठितेषु प्रजाभिः प्रकृतं प्रस्तुतमभिषेकम् । आदिकर्मणि क्तः । हित्वा त्यक्त्वा । '३३३१ | जहातेश्व विश्व | ७|४।४३।'
भ० का० ६
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com